Table of Contents

<<1-2-6 —- 1-2-8>>

1-2-7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा

प्रथमावृत्तिः

TBD.

काशिका

मृड मृद गुध कुष क्लिश वद वस इत्येतेभ्यः परः क्त्वाप्रत्ययः किद् भवति। न क्त्वा सेट् 1-2-18 इति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः। गुधकुषक्लिशीनां तु रलो व्युपधाद्धलादेः संश्च 1-2-26 इति विकल्पे प्राप्ते नित्यार्थं वचनम्। मृडित्वा। मृदित्वा। गुधित्वा। कुषित्वा। क्लिशित्वा। उदित्वा। उषित्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1591 मृडमृद। मृड सुखने, मृद क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिश हिंसायां –दिवादिः, क्लिशू विबाधने— क्र्यादिः, वद व्यक्तायां वाचि, वस निवासे। किदिति। `असंयोगाल्लिट् कि'दित्यतः किदित्यनुवर्तत इति भावः। उदित्वेति। यजादित्वात्संप्रसारणम्। उषित्वेति। `वसतिक्षुधो'रितीट्। यजादित्वात्संप्रसारणम्। `शासिवसी'ति षः। गृहीत्वेति। `ग्रहिज्ये'ति संप्रसारणम्, `ग्रहोऽलिटी'ति इटो दीर्घः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एभ्य: सेट् क्त्वा कित् । The affix ‘क्त्वा’ – even when augmented by ‘इट्’ – retains the property of being a कित् (having the letter ‘क्’ as a इत्) when it follows the verbal root √मृड् (मृडँ सुखने ६. ५३, मृडँ (क्षोदे) सुखे च ९. ५२), √मृद् (मृदँ क्षोदे ९. ५१), √गुध् (गुधँ परिवेष्टने ४. १४, गुधँ रोषे ९. ५३), √कुष् (कुषँ निष्कर्षे ९. ५४), √क्लिश् (क्लिशँ उपतापे ४. ५७, क्लिशूँ विबाधने ९. ५८), √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √वस् (वसँ निवासे १. ११६०).
Note: In the absence of this सूत्रम् -
(i) in the case of √मृड्, √मृद्, √वद् and √वस् – 1-2-18 would have removed the कित् property of the affix ‘क्त्वा’
(ii) in the case of √गुध्, √कुष् and √क्लिश् – 1-2-26 would have optionally removed the कित् property of the affix ‘क्त्वा’।

Example continued from 7-2-52

वस् + इत्वा 1-2-7 allows the affix ‘इत्वा’ to retain its कित् status in spite of 1-2-18. This allows 6-1-15 to apply in the next step.
= व् अ स् + इत्वा = उ अ स् + इत्वा 6-1-15, 1-1-45
= उसित्वा 6-1-108
= उषित्वा 8-3-60. ‘उषित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.