Table of Contents

<<1-2-50 —- 1-2-52>>

1-2-51 लुपि युक्तवद्व्यक्तिवचने

प्रथमावृत्तिः

TBD.

काशिका

लुपि इति लुप्सन्ंज्ञया लुप्तस्य प्रत्ययस्य अर्थ उच्यते। तत्र लुपि युक्तवद्व्यक्तिवचने भवतः। युक्तवतिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते। स हि प्रत्ययार्थम् आत्मना युनक्ति। तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते। अथ वा युक्तः प्रकृत्यर्थः प्रत्ययार्थेन सम्बद्धः, तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः। सप्तम्यर्थे वतिः। व्यक्तिवचने इति च लिङ्गसङ्ख्ययोः पूर्वाचर्यनिर्देशः, तदीयम् एव इदं सूत्रम्। तथा च अस्य प्रत्याख्यानं भविष्यते, तदशिष्यं संज्ञाप्रमाणत्वात् 1-2-53 इति। व्यक्तिः स्त्रीपुम्नपुंसकानि। वचनम् एकत्वद्वित्वबहुत्वानि। पञ्चलाः क्षत्रियाः पुंलिङ्गा बहुवचनविशयाः। तेषां निवासो जनपदः। यथा तेषु क्षत्रियेषु व्यक्तिवचने तद्वज्जनपदे भवतः। पञ्चालाः। कुरवः। मगधाः। मत्स्याः। अङ्गाः। वङ्गाः। सुग्माः। पुण्ड्राः। लुपि इति किम्? लुकि मा भूत्। लवणः सूपः। लवणा यवागूः। लवणं शाकम्। व्यक्तिवचने इति किम्? शिरीषाणाम् अदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम्। विभाषाओषधिवनस्पतिभ्यः 8-4-6 इति णत्वं न भवति। हरितक्यादिषु व्यक्तिः। हरीतक्याः फलानि हरीतक्यः फलानि। खलतिकादिषु वचनम्। खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकं वनानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1064 लुपि सति प्रकृतिवल्लिङ्गवचने स्तः. पञ्चालानां निवासो जनपदः पञ्चालाः. कुरवः. अङ्गाः. वङ्गाः. कलिङ्गाः..

बालमनोरमा

1275 लुपि यक्तवत्। प्रकृतिभूतः शब्दः=युक्तः, व्यक्तिः=लिङ्गं, वचनं=सङ्ख्येति पूर्वाचार्यसङ्केतः। तदाह–लुपि सति प्रकृतिवल्लिङ्गवचने स्त इति। `लु'बिति प्रत्ययाऽदर्शनमुच्यते। लुपः प्रवृत्तेः प्राक्प्रत्ययप्रकृतेर्यल्लिङ्गं वचनं ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः। पञ्चालानामिति। पञ्चालसंज्ञकानां राज्ञामित्यर्थः। पञ्चाला इति। `तस्य निवास' इति विहितस्याऽणः `जनपदे लु'बिति लुपि प्रकृतिबद्बहुवचनमिति भावः। कुरव इत्यादि। कुरूणाम्, अङ्गाना, वङ्गानां, कलिङ्गानां च निवासो जनपद इति विग्रहः। लिङ्गातिदेशे तु `कटिबदर्या अदूरभवो जनपदः कटुबदरी'त्युदाहार्यम्।

तत्त्वबोधिनी

1031 लुपि युक्तवदिति। व्यक्तिवचने किम्?। शिरीषाणामदूरभवो ग्रामः शिरीषाः। `वारणादिभ्यश्चे'ति लुप्। तस्य वनं शिरीषवनम्। इह वनस्पतित्वमतिदिश्येत। ततश्च `विभाषौषधिवनस्पतिभ्यः'इति णत्वं स्यात्। नन्वत्र शिरीषाणामिति षष्ठीबहुवचनं कृतो नातीदिश्यत इति चेत्। अत्राहुः–वचनमिह सङ्क्या, न त्वेकवचनाद्विवचनादि। न चैवमपि सह्ख्याबोधकत्वेन श्रुतैव षष्ठी परिगृह्रतामिति वाच्यं, षष्ठ\उfffद्र्थस्य तद्धितवृत्त्यन्तर्गतत्वादुक्तार्थे प्रथमाया एव युक्तत्वादिति। पञ्चला इत्यादि। यद्यप्यत्राभिधेयलिङ्गवत्त्वेऽपीष्टसिद्धिस्तथापि कटुबदर्या अदूरभवो ग्रामः कटुबदरीत्यादिसिद्धये प्रकृतिलिङ्गातिदेश इति भावः। पूर्वाचार्यानुरोधेन कृतं सूत्रं संप्रति प्रतायचष्टे।

Satishji's सूत्र-सूचिः

TBD.