Table of Contents

<<1-2-52 —- 1-2-54>>

1-2-53 तदशिष्यं संज्ञाप्रमाणत्वात्

प्रथमावृत्तिः

TBD.

काशिका

ततिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते। तदशिष्यं न वक्तव्यम्। कस्मात्? संज्ञाप्रमाणत्वात्। संज्ञाशब्दा हि नानालिङ्गसङ्ख्याः प्रमाणम्। पञ्चालाः, वरणा इति च, न एते योगशब्दाः। किं तर्हि? जनपदादीनां संज्ञा एताः। तत्र लिङ्गं वचनं च स्वभावसंसिद्धम् एव न यत्नप्रतिपाद्यम्, यथा आपः, दाराः, गृहाः, सिकताः, वर्षाः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1276 तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे–तदशिष्यं। यथा `दाराः' इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानं, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसङ्ख्याविशिष्टस्यैव स्वार्थस्य सोकव्यवहारादेव भानं संभवति, न तु तदंशे शास्त्रव्यापारापेक्षेति भावः। संज्ञानामिति। लोकव्यवहाराणामित्यर्थः।

तत्त्वबोधिनी

1032 तदशिष्यमिति। पञ्चालाः, अङ्गाः, वङ्गाः, कलिङ्गाः—इत्यादयो जनपदस्य यथायथं बहुवचनाद्यन्ता एव संज्ञा, न त्वत्र यत्नेन लिङ्गसङ्ख्ये प्रतिपादनीये। `आपः' `दारा' इत्यादिषु यथा। न हि तत्र शास्त्रेण लिङ्गसङ्ख्ये प्रतिपाद्येते इति भावः। उपजीवकं प्रत्याख्यायोपजीव्यं प्रत्याचष्टे–।

Satishji's सूत्र-सूचिः

TBD.