Table of Contents

<<1-2-51 —- 1-2-53>>

1-2-52 विशेषणानां च अजातेः

प्रथमावृत्तिः

TBD.

काशिका

लुपि इति वर्तते। लुबर्थस्य यानि विशेषणानि तेषाम् अपि च युक्तवद् व्यक्तिवचने भवतः जातिं वर्जयित्वा। पञ्चालाः रमणीयाः, बह्वन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः। गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ। अजातेः इति किम्? पञ्चालाः जनपदः। गोदौ ग्रामः। जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः। तेन जातिद्वारेण यानि विशेषणानि तेषाम् अपि युक्तवद्भावो न भवति। पञ्चालाः जनपदो रमणीयो, बह्वन्नः। गोदौ ग्रामो रमणीयो, बह्वन्नः इति। मनुष्यलुपि प्रतिषेधो वक्तव्यः। चञ्चा अभिरूपः। वर्ध्रिका दर्शनीयं।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1281 विशेषणानां चाजातेः। कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठ\उfffदा विपरिणतं संबध्यते। लुप्तप्रत्ययार्थस्येति लभ्यते। तदाह– लुबर्थस्येति। तद्वदिति। प्रकृतिवदित्यर्थः। `लुपि युर्तवद्व्यक्तिवचने' इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम्। पञ्चाला रमणीया इति। पञ्चालानां निवासो जनपद इत्यर्थः। अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रममीयशब्दस्य प्रकृतिवद्बहुवचनम्। गोदौ रमणीयाविति। गोदयोर्निवासो जनपद इत्यर्थः। अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद्द्विवचनम्। पञ्चाला जनपद इति। जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम्। गोदौ ग्राम इति। अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद्द्विवचनम्। व्यक्तिरिति। वार्तिकमिदम्। `लुपि लिङ्गं प्रकृतिवद्भवति, न तु वचन'मिति शेषः। हरीतक्य इति। `हरीतक्यादिभ्यश्चे'ति विकारप्रत्ययस्य लुप्। अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः। वार्तिकमिदम्। एषु लुपि प्रकृतिवद्वचनमेव भवति, नतु लिङ्गमित्यर्थः। खलतिकं वनानीति। `वरणादिभ्यश्चे'ति लुप्। अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुंलिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः। मनुष्यलुपि प्रतिषेध इति। वार्तिकमिदम्। विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः। चञ्चा अभिरूप इति। चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यश्चञ्चा। `इवे प्रतिकृतौ' इत्यधिकारे `संज्ञाया'मिति कनो `लुम्मनुष्ये' इति लुप्। अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वं, न तु तद्विशेषणस्याऽभिरूपशब्दस्येति भावः। इति युक्तवद्भावप्रकरणम्।

तत्त्वबोधिनी

1034 विशेषणानां। यद्यपि सूत्रपाठे `लुपि युक्तल'दिति सत्रादनन्तरमेतत्सूत्रं पठित्वा `तदशिष्य'मित्याशब्धात्वात्तत्रैवेदं व्याख्यातुमुचितम्, तथापि जातेः प्रतिषेधमात्रपरमिदं, न तु युक्तवद्भावपरिमित्याशयेन तत्र नोक्तमित्याहुः। पञ्चाला रमणीया इति। कथं तर्हि `पञ्चाला जनपदः सुभिक्षः सम्पन्नपानीयः'इति प्रयोग इति चेत्, जनपदविशेषणत्वादित्येवेहि। पञ्चालविशेषणत्वाभ्युपगमे तु तद्वलिङ्गवचने स्त एव —पञ्चाला जनपदाः सुभिक्षः सम्पन्नपानीया इति।\त् हरीतक्य इति। `हरीतक्यादिभ्यश्चे'त्यणो लुप्। तत्र हि `लुप् चे'त्यतो लुबनुवर्तते। लुप्। लुप्। `चञ्चा तृणमयः पुमान्'।

Satishji's सूत्र-सूचिः

TBD.