Table of Contents

<<8-4-5 —- 8-4-7>>

8-4-6 विभाषौषधिवनस्पतिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

वनम् इत्येव। ओषधिवाचि यत् पूर्वपदं वनस्पतिवाचि च तत्स्थान् निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा। ओषधिवाचिभ्यस् तावत् दूर्वावणम्, दूर्वावनम्। मूर्वावणम्, मूर्वावनम्। वन्स्पतिभ्यः शिरीषवणम्, शिरीषवनम्। बदरीवणम्, बदरीवनम्। द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम्। इह मा भूत्, देवदारुवनम्। भद्रदारुवनम्। इरिकादिभ्यः प्रतिषेधो वक्तव्यः। इरिकावनम्। मिरिकावनम्। फली वन्स्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः। ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः। सत्यपि भेदे वृक्षवनस्पत्योरिह भेदेन ग्रहणं द्रष्तव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1036 विभाषौषधि। वनस्य णत्वमिति। ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः। ओषधिभ्यः उदाहरति–दूर्वावणमिति। `ओषध्यः फलपाकान्ताः' इत्यमरः। अथ वनस्पतिभ्य उदाहरति–शिरीषवणमिति। यद्यपि यः पुष्पैर्विना फलति स एव उदुम्बरादिर्वनस्पतिः, `वानस्पत्यः फलैः पुष्पात्रैरपुष्पाद्वनस्पति'रित्यक्तेः। शिरीषवृक्षश्चायं पुष्पफलवानेन न वनस्पतिस्तथापि वनस्पतिशब्देनाऽत्र वृक्षसामान्यं विवक्षितम्। अत एव `सुपि युक्तवद्व्यक्तिवचने' इति सूत्रे भाष्ये `शिरीषवण'मित्यत्र शिरीषे वनस्पतित्वं व्यवह्मतमिति दिक्। द्व्यच्त्र्यज्भ्यामेवेति। `परस्य वनस्य णत्वं वाच्य'मिति शेषः। देवदारुवनमिति। प्रत्युदाहरणम्। \र्\निरिकादिभ्य इति। एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः।

तत्त्वबोधिनी

868 शिरीषवणमिति। ननु `वानस्पत्यः फलैः पुष्पत्तैरपुष्पाद्वनस्पति'रित्यमर कोशाद्यस्य पुष्पं विनैव फलप्रादुर्भावः स वनस्पतिः, स चोदुम्बरादिः। शिरीषल्तु न तथा, तस्य पुष्पफलोभयसत्त्वादतो णत्वमिह कथमिति चेत्?। अत्राहुः– वनस्पतिशब्देनात्र वृक्षमात्र मुपलक्ष्यते। अत्र च `लुपि युक्तव'दिति सूत्रस्थं भाष्यं लिङ्गम्। तत्र हि व्यक्तिवचने किम्?। शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीषवणमित्यत्र णत्वे कर्तव्ये वनस्पतित्वमप्यतिदिश्येतेत्युक्तम्। तच्च शिरीषाणां वनस्पतित्वे सङ्गच्छते नान्यथेति दिक्। व्यवस्थितविभाषाश्रयणादिति भावः। ओषधित्वात्प्राप्ते प्रतिषेधमाह।\र्\नीरिकादिभ्यः प्रतिषेधो वक्तव्यः। इरिकादिभ्य इथि। एतदपि व्यवस्थितविभाषाज्ञानादेव सिद्धम्। उशीनरा इति। इह उशीनरशब्दस्त द्देशवासिषु भाक्तः। कर्मणि ल्युडिति। `कृत्यल्युटो बहुल'मित्यनेन। वा भाव। आदेशार्थ आरम्भ इत्यप्रप्तविभाषा।

Satishji's सूत्र-सूचिः

TBD.