Table of Contents

<<6-1-170 —- 6-1-172>>

6-1-171 ऊडिदंपदाद्यप्पुम्रैद्युभ्यः

प्रथमावृत्तिः

TBD.

काशिका

ऊट्ः इदम् पदादि अप् पुम् रै दिवित्येतेभ्यो ऽसर्वनामस्थानविभक्तिरुदात्ता भवति। ऊट्ः प्रष्टौहः। प्रष्ठौहा। ऊठ्युपधाग्रहणं कर्तव्यम्। इह मा भूत्, अक्षद्युवा। अक्षद्युवे। इदम् आभ्याम्। एभिः। अन्तोदात्तातित्यधिकारादन्वादेशे न भवति, अथो आभ्यां निपुणमधीतम् इति। पदादयः पद्दन्नोमास 6-1-63 इत्येवम् आदयो निश्पर्यन्ता इह गृह्यन्ते। नि पदश्चतुरो जहि। या दतो धावते। असन्प्रभृतिभ्यो विभक्तिरनुदात्तैव भवति। ग्रीवायां बद्धो अपि कक्ष आसनि। मत्स्यं न दीन उदनि क्षियन्तम्। अप् अपः पश्य। अद्भिः। अद्भ्यः। पुम् पुंसः। पुम्भ्याम्। पुम्भ्यः। पुंसा। पुंसे। रै रायः पश्य। राभ्याम्। राभिः। दिव् दिवः पश्य। दिवा। दिवे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.