Table of Contents

<<6-1-170 —- 6-1-172>>

6-1-171 ऊडिदंपदाद्यप्पुम्रैद्युभ्यः

प्रथमावृत्तिः

TBD.

काशिका

ऊट्ः इदम् पदादि अप् पुम् रै दिवित्येतेभ्यो ऽसर्वनामस्थानविभक्तिरुदात्ता भवति। ऊट्ः प्रष्टौहः। प्रष्ठौहा। ऊठ्युपधाग्रहणं कर्तव्यम्। इह मा भूत्, अक्षद्युवा। अक्षद्युवे। इदम् आभ्याम्। एभिः। अन्तोदात्तातित्यधिकारादन्वादेशे न भवति, अथो आभ्यां निपुणमधीतम् इति। पदादयः पद्दन्नोमास 6-1-63 इत्येवम् आदयो निश्पर्यन्ता इह गृह्यन्ते। नि पदश्चतुरो जहि। या दतो धावते। असन्प्रभृतिभ्यो विभक्तिरनुदात्तैव भवति। ग्रीवायां बद्धो अपि कक्ष आसनि। मत्स्यं न दीन उदनि क्षियन्तम्। अप् अपः पश्य। अद्भिः। अद्भ्यः। पुम् पुंसः। पुम्भ्याम्। पुम्भ्यः। पुंसा। पुंसे। रै रायः पश्य। राभ्याम्। राभिः। दिव् दिवः पश्य। दिवा। दिवे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.