TBD.
एकश्रुतिः इति वर्तते। संहितायं विशये स्वरितात् परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। माणवक जटिलकाध्यापक क्व गमिष्यसि। इमम् इत्यन्तौदात्तं, मे इति अनुदात्तं विधिकाल एव निघातविधानात्। तत् पुनः उदात्तादनुदातस्य स्वरितः 8-4-66 इति स्वरितं सम्पद्यते। तस्मात् स्वरितात् परेषाम् अनुदात्तानां गङ्गेप्रभृतीनाम् एकश्रुतिर् भवति। सर्व एते आमन्त्रितनिघातेन अनुदात्ताः। माणवक जटिलक इति प्रथमम् आमन्त्रितमाद्युदात्तं, तस्य द्वितीयम् अक्षरम् स्वरितं, ततः परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति। संहिताग्रहणं किम्? अवग्रहे मा भूत्। इमम् मे गङ्गे यमुने सर्स्वति।
TBD.
–
–
798 नपुंसकमन। अन्यतरस्याङ्ग्रहणम् `एकवच्चे'त्यनेनैवानन्तर्यात्संबन्ध्यते, न त्वेकशेषेणेत्याशयेनाह–क्लीबं शिष्यते तच्च वा एकवदिति। अनपुंसकेनेति किम्?। शुक्लं च शुक्लं च शुक्ले। अत्र `एकवच्चे'ति न भवति। `अस्य'ग्रहणम् `अस्यैवैकशेषस्य एकवद्भावो यथा विज्ञायेते'त्येवमर्थम्। अन्यथा उत्तरत्राप्येकवदित्यस्यानुवृत्तिः शङ्क्येत। शुक्लः पट इत्यादि। `शुक्लः शुक्ला शुक्ल'मित्येव विग्रहः, `पटः पटी'त्यादिप्रदर्शनं तु शुक्ल शब्दस्य गुणुलिङ्गत्वस्फोरणाय।
TBD.