Table of Contents

<<1-2-18 —- 1-2-20>>

1-2-19 निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः

प्रथमावृत्तिः

TBD.

काशिका

न सेटिति वर्तते। शीङ् स्विदि मिदि क्ष्विदि धृषित्येतेभ्यः प्रो निष्ठाप्रत्ययः सेण् न किद् भवति। शयितह्, शयित्वान्। प्रस्वेदितः, प्रस्वेदितवान्। प्रमेदितः, प्रमेदितवान्। प्रक्ष्वेदितह्, प्रक्ष्वेदितवान्। प्रधर्षितः प्रधर्षितवान्। सेटित्येव स्विन्नः, स्विन्नवान्। स्विदादीनम् आदितश्च 7-2-16 इति निष्ठायामिट् प्रतिषिध्यते। विभाषा भावाऽदिकर्मणोः 7-2-17 इति पक्षे ऽभ्यनुज्ञायते स विषयः कित्त्वप्रतिषेधस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

859 निष्ठा शीङ्। `न क्त्वा से'डित्यतो न सेडित्यनुवर्तते। `असंयोगा'दित्यतः किदिति च। तदाह– एभ्यः सेडिति। शीङिति ङकारस्य फलमाह– अनुबन्धेति। यङ्? लुकि`श्तिपा शपे'ति निषेधार्थ इत्यर्थः। सेश्यितवानिति। अत्र कित्त्वनिषेधाऽभावात्कित्त्वान्न गुण इति भावः। आदिकर्मणि निष्ठा वक्तव्येति। दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंऽश आदिकर्म। तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः. तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाऽभावाद्भूते विहिता निष्ठा न प्राप्तेत्यारम्भः।

तत्त्वबोधिनी

704 शेश्यित इति। `एरनेकाचः' इति यण्।

Satishji's सूत्र-सूचिः

TBD.