Table of Contents

<<1-2-19 —- 1-2-21>>

1-2-20 मृषस् तितिक्षायाम्

प्रथमावृत्तिः

TBD.

काशिका

मृषेर् धातोः तितिक्षायाम् अर्थे निष्ठा सेण् न किद् भवति। तितिक्षा क्षमा। मर्षितः, मृषितवान्। तितिक्षायाम् इति किम्? अपमृषितं वाक्यम् आह।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

862 मृषस्तितिक्षायाम्। तितिक्षा – क्षमा। सेण्निष्ठा किन्नेति – शेषपूरणमिदम्। `निष्ठा शी'ङित्यतो निष्ठेति, `न क्त्वा से'डित्यतः सेण्नेति, `असंयोगा'दित्यतः किदिति चानुवर्तत इति भावः।

तत्त्वबोधिनी

707 अविस्पष्टमिति। मृषधातोस्तितिक्षायामेव वृत्तिसत्त्वेऽपि सूत्रस्थतितिक्षाग्रहणमेव ज्ञापयत्यनेकार्था धातव इति।

Satishji's सूत्र-सूचिः

TBD.