Table of Contents

<<7-2-16 —- 7-2-18>>

7-2-17 विभाषा भावाऽदिकर्मणोः

प्रथमावृत्तिः

TBD.

काशिका

भवे आदिकर्मणि च आदितो धातोः विभाषा निष्ठायाम् इडागमो न भवति। मिन्नमनेन, मेदितमनेन प्रमिन्नः, प्रमेदितः। सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन। शकितो घटः कर्तुम्, शक्तो घटः कर्तुम्। भावे न भवत्येव, शक्तमनेन। अस्यतेर्भावे, असितमनेन। आदिकर्मणि च न भवत्येव, अस्तः काण्डः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

861 विभाषा भावादिकर्मणोः। आदितो निष्ठाया इड्वेति। `आदितश्चे'त्यत आदित इति, `\उfffदाईदितः' इत्यतो निष्ठाग्रहणं , `नेड्वशी'त्यतो नेति चानुवर्तते इति भावः। निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते। प्रस्वेदितश्चैत्र इति। चैत्रकर्तृका आरभ्यमाणप्रस्वेदनक्रियेत्यर्थः। ञीद्भिरिति। ञिरिद्येषां ते ञीतः, तैर्मिदिप्रभृतिभिरिति तदर्थः। स विषयः कित्त्वप्रतिषेधस्येति बोध्यम्। स्विद्यतेस्त्विति। `ञि ष्विदा गात्रप्रक्षरणे' इति दैवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः। स्विदित इति। `विभाषा भावे'ति पक्षे इट्। कित्त्वनिषेधविधौ स्विद्यतेग्र्रहणाऽभावात्कित्त्वान्न गुण-। अत्र स्विदादीनाम् `आदितश्चेति इट् प्रतिषिध्यते। भावादिकर्मणोस्तु पक्षे इट्।

तत्त्वबोधिनी

706 प्रस्वेदित इति। प्रशब्द आदिकर्मद्योतनार्थः। स्वेदितमित्यादि भावे। भ्वादिरत्रेति। `ञिष्विदा स्नेहनमोचनयोः' इति पठितः। स्विद्यतेस्त्विति। `ष्विदा गात्र प्रक्षरणे' इति दिवादिषु पठितस्य स्विदित इत्येवेति, कित्त्वनिषेधाऽभावादिति भावः। न च ष्विदेति दैवादिकोऽपि ञीदिति वाच्यम्, हरदत्तग्रन्थविरोधादिति भावः। अत्र हरदत्तः– ञिक्ष्विदा स्नेहनमोचनयोरिति दिवादिर्गृह्रते न तु ञिक्ष्विदा अव्यक्ते शब्दे इति भ्वादिरपि, मिदिना साहचर्यादित्याह। तच्चिन्त्यम्। भ्वादिष्वपि मिदेः पठ\उfffद्मानत्वात्। तस्मादविशेषादुभयोग्र्रहणं न्याय्यं। तदेतदाह– दिवादी भ्वादी चेति।

Satishji's सूत्र-सूचिः

TBD.