Table of Contents

<<1-2-14 —- 1-2-16>>

1-2-15 यमो गन्धने

प्रथमावृत्तिः

TBD.

काशिका

सिच आत्मनेपदेषु इति वर्तते। यमेर् धातोर् गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवति आत्मनेपदेषु परतः। गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस् तत्र वर्तते। उदयत, उदायसाताम्, उदायसत। सूचितवानित्यर्थः। सिचः कित्त्वादनुनासिकलोपः। आङो यमहनः 1-3-28 इत्यात्मनेपदम्। गन्धन इति किम्? उदायंस्त पादम्। उदायंस्त कूपादुदकम्। उध्दृतवानित्यर्थः। सकर्मकत्वे ऽपि समुद्दाङ्भ्यो य्मो ऽग्रन्थे 1-3-75 इत्यात्मनेपदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

522 यमो गन्धने। सिच्कित्स्यादिति। शेषपूरणम्। सिचः कित्त्वे मकारस्य `अनुदात्तोपदेशे' ति लोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.