TBD.
हन्तेर् धातोः परः सिच् किद् भवति। आहत, आहसाताम्, आहसत। सिचः कित्त्वादनुनासिकलोपः। सिज्ग्रहणं लिङ्निवृत्त्यर्थम्। उत्तरत्रानुवृत्तिर् मा भूत्। अत्मनेपदग्रहणम् उत्तरार्थम् अनुवर्तते। इह तु परस्मैपदे हन्तेर् वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं न अस्ति।
TBD.
–
521 हनः सिच्। `कित्स्या'दिति शेषपूरणम्। `असंयोगाल्लिट्कि'दित्यतस्तदनुवृत्तेरिति भावः। हनधातोः परः सिच् कित्स्यादिति फलितम्। अनुनासिकलोप इति। `अनुदात्तोपदेशे' इति नकारलोप इत्यर्थः। उत् आ यम् स् त इति स्थिते—
–
TBD.