TBD.
कर्त्रभिप्राये इति वर्तते। सम् उदाङित्येवं पूर्वाद् यमेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति, ग्रन्थविशयश्चेत् प्रयोगो न भवति। व्रीहीन् संयच्छते। भारम् उद्यच्छते। वस्त्रम् आयच्छते। आङ्पूर्वादकर्मकाताङो यमहनः 1-3-28 इति सिद्धम् एवाऽत्मनेपदम्। सकर्मकार्थम् इदं पुनर्ग्रहणम्। अग्रन्थे इति किम्? उध्यच्छति चिकित्सां वैद्यः। कर्त्रभिप्राये इत्येव, संयच्छति। उद्यच्छति। आयच्छति।
TBD.
–
566 समुदाङ्भ्यो। सम्, उत्, आङ् एतत्पूर्वादग्रन्थविषयकाद्यमेरात्मनेपदमित्यर्थः। व्रीहीन्संयच्छते इति। संगृह्णातीत्यर्थः। भारमुद्यच्छते इति। उदृह्णातीत्यर्थः। वरुआमायच्छते इति। कट\उfffदादौ निबध्नातीत्यर्थः। कत्र्रभिप्राये इत्येवेति। व्रीहीन् संयच्छतीति। परार्थं संगृह्णातीत्यर्थः। `आङो यमहनः' इत्येव सिद्धे आड्ग्रहणं सकर्मकार्थम्, तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम्।
468 समुदाङ्भ्यो। `आङो यमहनः' इत्येव सिद्धे आङ्पूर्वकस्य वचनं सकर्मकार्थमिति ध्वनयन्नुदाहरति– वस्त्रमायच्छत इति।
TBD.