TBD.
समानः कर्ता ययोः धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद् धातोः क्त्वा प्रत्ययो भवति। शक्तिशक्तिमतोः भेदस्य अविवक्षितत्वात् समानकर्तृकता। भुक्त्वा व्रजति। पीत्वा व्रजति। द्विवचनमतन्त्रम्। स्नात्वा पीत्वा भुक्वा व्रजति। समानकर्तुऋकयोः इति किम्? भुक्तवति ब्राह्मणे गच्छति देवदत्तः। पूर्वकाले इति किम्? व्रजति च जल्पति च। आस्यं व्यादाय स्वपिति चक्षुः संमील्य हस्ति इत्युपसंख्यानम् अपूर्वकालत्वात्।
TBD.
882 समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्. भुक्त्वा व्रजति. द्वित्वमतन्त्रम्. भुक्त्वा पीत्वा व्रजति..
–
1589 समानकर्तृक। इह धात्वधिकारेऽपि समानकर्तृकत्वं क्रिययोरेव सम्भवतीत्याशयेनाह- - धात्वर्थयोरिति। निर्धारणे षष्ठी सप्तमी वा। धात्वर्थयोर्मध्ये पूर्वः कालो यस्य धात्वर्थस्य तस्मिन्विद्यमानादित्यर्थः। एवं च निर्धारणविभक्तिरेव पूर्वकाल इत्यस्य बहुव्रीहित्वद्योतिकेति फलितम्। क्त्वा स्यादिति। स च भावे, `अव्ययकृत' इति वचनात्। भावोऽपि घञादाविव नेह सिद्धावस्थः, किन्तु साद्यावस्थः। स च धातुनैव लब्धः। क्वाप्रकृत्यर्थभूता क्रिया च क्रियान्तरं प्रति विशेषणं, धातुसंबन्धादिकारात्। संसर्गश्चेह सामानाधिकरण्यं , पूर्वोत्तरकालत्वं च। नत्र संसर्गविशेषतात्पर्यग्राहकः क्त्वाणमुलादयः। अत्र च `समानकर्तृकयो'रिति सूत्रांशेन सामानाधिकरण्यमुपनिबद्धम्, दातूपात्तव्यापराश्रयस्य कर्तृतया तथा पर्यवसानादिति दिक्। द्वित्वमिति। नन्वमीषां ब्राआहृणानां पूर्वमानयेत्युक्ते मध्यमो नानायीते, तथेहापि बहुक्रियासमभिव्याहारे मध्यमक्रियावाचकात् क्त्वाप्रत्ययो न स्यादिति चेदत्राहुः– इहाप्याख्यातवाच्या क्रिया प्रधानं,तां प्राति क्त्वान्तोपस्थिताः क्रियाः सर्वा एव विशेषणं, न तु तासां परस्परसंबन्धः, `गुणानां च परार्थत्वा'दित न्यायात्। अतएव स्नात्वा पीत्वा भुक्त्वा व्रजतीत्याद्यनियमेन प्रयुज्यत इति। `स्वरतिसूती' त्यादिना विकल्पे प्राप्ते नित्यार्थमाह–स्वरत्यादेरिति।
वृत्तिः समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । The affix ‘क्त्वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: द्वित्वमतन्त्रम् । The use of the dual number in समानकर्तृकयोः is non-consequential. It does not necessarily mean that the affix ‘क्त्वा’ applies only when there are exactly two actions. The affix ‘क्त्वा’ can also be used when there are three or more actions – for example भुक्त्वा पीत्वा व्रजति।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67) of the action.
उदाहरणम् – भुक्त्वा is derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७).
भुज् + क्त्वा 3-4-21
= भुज् + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट्’ which would been done by 7-2-35. And 1-1-5 stops 7-3-86.
= भुग् + त्वा 8-2-30
= भुक्त्वा 8-4-55. ‘भुक्त्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.
पीत्वा is derived from the verbal root √पा (पा पाने १. १०७४).
पा + क्त्वा 3-4-21
= पा + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट्’ which would been done by 7-2-35
= पीत्वा 6-4-66. 1-1-5 stops 7-3-84. ‘पीत्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.