TBD.
निपातः इति वर्तते। तस्यौकारेण तदन्तविधिः। ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति। आहो इति। उताहो इति।
TBD.
56 ओदन्तो निपातः प्रगृह्यः स्यात्. अहो ईशाः..
105 ओत्। `निपात' इत्यनुवर्तते। `ओ'दिति तस्य विशेषणमतस्तदन्तविधिः। `प्रगृह्र'मित्यनुवर्तते, पुँल्लिङ्गतया च विपरिणम्यते, तदाह–ओदन्त इत्यादिना। अहो ईशा इति। अनेकाच्त्वात्पूर्वसूत्रेणाऽप्राप्तौ वचनम्।
85 ओत्। निपात इति किम् ?। देवोऽसि, वायवायाहि।