TBD.
एकश्च असावच्च एकाच्, निपातो य एकाचाङ्वर्जितः स प्रगृह्यसंज्ञो भवति। अ अपेहि। इ इन्द्रं पश्य। उ उत्तिश्ठ। आ एवं नु मन्यसे। आ एवं किल तत्। निपातः इति किम्? चकारत्र। जहारात्र। एकाचिति किम्? प्राग्नये वाचमीरय। अनाङिति किम्? आ उदकान्तात्, ओदकान्तात्। ईषदर्थे त्रियायोगे मर्याऽदाभिविधौ च यः। एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित्।
TBD.
55 एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्. इ इन्द्रः. उ उमेशः.ऽवाक्यस्मरणयोरङित्; आ एवं नु मन्यसे. आ एवं किल तत्. अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम्..
104 निपात एकाच्। `प्रगृह्र'मित्यनुवर्तते, पुँल्लिङ्गतया च विपरिणम्यते। एकाश्चासावच्चेति कर्मधारयः। तदाह–एकोऽजित्यादिना। इ विस्मये इति। इ इति चादित्वान्निपातः। स च आश्चर्ये वर्तत इत्यर्थः। इ इन्द्रः। उ उमेशः। इ इति उ इति निपातः। सम्बोधने उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्रत्वान्न सन्धिः। `अना'ङित्यत्र ङकारानुबन्धस्य प्रयोजनमाह - अनाङित्युक्तेरिति। आ एवमिति। पूर्व प्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः। आ एवमिति। स्मरणद्योतकोऽयमाकारः। इहोभयत्रापि आकारस्य ङित्त्वाऽभावान्न पर्युदासः। ङित्त्विति। ङित्तु आकारः प्रगृह्रो न भवति, अनाङिति पर्युदासादित्यर्थः। ओष्णमिति। आ-उष्णमित्यत्र आकारस्य ङित्त्वात्प्रगृह्रत्वाऽभावे सति आद्गुणः। ननु प्रयोगदशायां ङकारस्याऽश्रवणाविशेषान्ङिदङिद्विवेकः कथमित्यत आह-वाक्येति। प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अङित्। अन्यत्र=ईषदाद्यर्थे गम्ये, ङिदिति विवेकः–भेदोऽवगन्तव्य इत्यर्थः। मर्यादाभिविधौ च यः। एतमातांङितं विद्याद्वाक्यस्मरणयोरङित्॥' इति॥ `एकोऽच् यस्ये'ति बहुव्रीहिस्तु नाश्रितः, तथा सति `प्रेद'मित्यादाबतिप्रसङ्गात्।
84 निपात एकाच्। निपातः किम् ?। अततेर्डः। अः। `हे अ आगच्छ'। अत्र प्रगृह्रसंज्ञा मा भूत्। एकग्रहणाऽभावे `येन विधि'रिति सूत्रात्तदन्तलाभे `प्रेद'मित्यत्र स्यादत उक्तम्–एक इति। `एका'जिति तु न बहुव्रीहिः, उक्तातिप्रसङ्गतादवस्थ्यात्। अतः `पूर्वकालैके'ति कर्मधारय एव। ननु `निपातोऽना'तित्युक्ते हलन्तस्य सत्यपि प्रगृह्रत्वे प्रयोजनाऽभावादजन्ते प्राप्ते अज्ग्रहणसामथ्र्यादज्रूपस्यैव निपातस्य प्रगृह्रत्वे सिद्धे किमेकग्रहणेन ?। न च `पुरोऽस्ती'त्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावादतो रोरितिरोरुत्वं न स्यादतोऽज्ग्रहणसामथ्र्यमुपक्षीणमित्येकग्रहणमावश्यकमिति वाच्यम्; प्रगृह्रसंज्ञां प्रति रुत्वस्याऽसिद्धतया रेफान्त[स्यैत]स्य प्रगृह्रसंज्ञाऽभावेन दोषाऽप्रसक्तेः। न च सान्तस्य कृता प्रगृह्रसंज्ञा एकदेशविकृतन्यायेन रेफान्तस्यापि स्यादेवेति प्रकृतिभावादुत्वाऽभावप्रसङ्गस्तदवस्थ इति वाच्यम्; प्रगृह्रसंज्ञां प्रतीव प्रकृतिभावं प्रत्यपि रुत्वस्याऽसिद्धत्वात्प्रकृतिभावाऽप्रवृत्तेः। सकारान्तस्य तु न किंचिदपि सिद्धकाण्डस्थं प्रयोजनं प्राप्नोति यत्प्रकृतिभावेन व्यावर्त्त्येत। न चाज्ग्रहणसामथ्र्यादजन्तस्यैव प्र परा अपेत्यादिनिपातस्य प्रगृह्रसंज्ञा स्यान्न त्वज्रूपनिपातस्यैति वैपरीत्यशङ्कानिवारणार्थमेकग्रहणमिति वाच्यम्; अनाङ्ग्रहणवैयथ्र्यापत्तेः , `व्याहरति मृग' इत्यादिनिर्देशविरोधाच्चोक्तशङ्काया अप्रवृत्तेः। किंच `निपातोऽजना'ङित्युक्तेऽप्यनाङिति प्रतिषेधसामथ्र्यान्निपातस्य विशेषणत्वाभ्युपगमे तदन्तविध्यप्रवृत्त्या निपातरूपो योऽच्स प्रगृह्र इत्यर्थलाभादज्रूपस्यैव निपातस्य प्रगृह्रत्वं सिद्धमिति नास्त्येव प्रयोजनमेकग्रहणस्य। नन्वेवमपि समुदायनिवृत्त्यर्थमेकग्रहणमावश्यकमेव। अन्यथा `ऐउ अपेही'त्यत्रैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नाऽवयवानामिति चरमस्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति चेन्न; `अ'जित्येकत्वस्य विवक्षयैव समुदायनिराससंभवात्समुदायसंज्ञयाऽवयवानामननुग्रहेणैकाज्द्विर्वचनन्यायस्याऽप्यप्रवृत्तेः। एकस्मिन्निपाते संज्ञाविधानसंभवेन निपातसमुदायस्य निपातग्रहणेनाऽग्रहणाच्च। अत्राहुर्भाष्यकाराः-`अच्समुदायग्रहणशङ्कनिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति वर्णग्रहणेषु व्यक्तिसङ्ख्या न विवक्ष्यते किंतु जातिरेव निर्दिश्यते' इति। तेन `हलन्ताच्चे'ति सनः कित्त्वात् `दम्भ इच्चे'तीत्त्वे `धिप्सती'त्यादि सिद्धम्। हल्ग्रहणस्य व्यक्तिपरत्वे तु योऽत्रेकः समीपो हल् नकारो, न ततः परः सन्, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्, ततश्च नलोपो न स्यात्। वस्तुतस्तु अपृक्तसंज्ञायामेकग्रहणमुक्तार्थज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकाज्ग्रहणं त्यक्तुं शक्यम्। ?त #एव मनोरमायामनाङिति पर्युदासादेवाऽज्रूषनिपाते लब्धे निपातग्रहणमुत्तरार्थं सत्स्पष्टप्रतिपत्त्यर्थमिहैव कृतमिति निपातग्रहणस्यैव प्रयोजनमुक्तं न त्वेकाज्ग्रहणस्य। अत्र नव्याः–यदुक्तं मनोरमायाम्-`अनाङिति पर्युदासा'दित्यादि, तच्चिन्त्यम्, `ओत्'सूत्रे भाष्यकारैः प्सज्यप्रतिषेधस्यैवाङ्गीकृतत्वात्। नच लभ्यभेदाऽभावात्प्रौढिवादमात्रं भाष्यमिति वाच्यम्;-अस्मादेव भाष्यवचनाल्लक्ष्यभेदोऽप्सतीति सुवचत्वात्। तथाहि-अततेर्डः-अः। `अकारो वासुदेवः स्या'दिति वचनाद्रूढिशब्दो वा। अनेन `अ' शब्देन सह `अङ्भर्यादाभिविध्योः' इति आङोऽव्ययीभावे सवर्णदीर्घे `अव्ययीभावश्चे'ति नपुंसकत्वाद्ध्रस्वत्वे सोरम्यमि पूर्वे च कृते `अ'मिति रूपं भाष्यकृत्संमतम्। तथा इणो निष्ठायामितः, वेञस्तु निष्ठायां संप्रसारणे उतः। अम् इतः-एतः, अम् उतः-ओतः' इत्यासमुद्रक्षिति-वत्समासे रूपं च तत्संमतम्। तत्र पर्युदासपक्षे अमि पूर्वो गुणश्च न सिध्यति। अशब्दस्याङ्?भिन्नत्वात्स्थानिवद्भावेन निपातत्वाच्च प्रगृह्रत्वात्। प्रसज्यप्रतिषेधाश्रये तु सिध्यति, तस्याङ्?त्वेन प्रगृह्रत्वनिषेधात्। न चैतादृशप्रयोगोऽप्रामाणिक इति वक्तुं युक्तम्, प्रकृतभाष्यस्यैव प्रमाणत्वात्। अन्यथा हि भाष्यकारेङ्गितमात्रावलम्बनेन तत्र प्राचां ग्रन्थानामधिक्षेपाय भवतां प्रवृत्तयो व्याहन्योरन्नित्याद्याहुः। आङ्वर्ज इति। प्रतिषेधपक्षे तु प्रगृह्रः स्यादित्येतदुत्तरमिदं द्रष्टम्। वज्र्यत इति वर्जः। वृजेण्र्यन्तात्कर्मणि घञ्। वर्जनीय इत्यर्थः। आङो न भवतीति यावत्। आ एवमिति। पूर्वप्रक्रान्तवाक्यार्थस्य अन्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः। आ एवं किलेति। स्मरणद्योतकोऽयमाकारः। वाक्यस्मरणयोरित्यादि। अत्रायमाशयः-`ईषदर्थे क्रियायोगेमर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्।' इति भाष्यस्याऽङिल्लक्षण एव तात्पर्यं, लाघवात्। अन्यस्य ङित्त्वं त्वर्थसिद्धम्। `ईषदर्थ#ए-'इत्यादिस्त्वेकदेशानुवादः। एवंच `अभ्र आँ अप'इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्त्वात् `आङोऽनुनासिकश्छन्दसी'ति प्रवर्तत इति।
TBD.