TBD.
ओतिति वर्तते। सम्बुद्धिनिमित्तो य ओकारः स शाकल्यस्य आचार्यसय् मतेन प्नगृह्यसंज्ञो भवति, इतिशब्दे अनार्षे अवैदिके परतः। वायो इति, वायविति। भानो इति, भानविति। सम्बुद्धौ इति किम्? गवित्ययमाह। अत्र अनुकार्यानुकरणयोः भेदस्य अविवक्षितत्वात्, असत्यर्थवत्त्वे विभक्तिर्न भवति। शाकल्यग्रहणं विभाषाऽर्थम्। इतौ इति किम्? वायो ऽत्र। अनार्षे इति किम्? एता गा ब्रहमबन्ध इत्यब्रवीत्।
TBD.
57 सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे. विष्णो इति, विष्ण इति, विष्णविति..
106 संबुद्धौ शाकल्यस्येति। सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति। `प्रगृह्र'मित्यनुवर्तते, स च पुँल्लिङ्गतया विपरिणम्यते। ऋषिः=वेदः। `तदुक्तमृषिणे'त्यादौ तथा दर्शनात्। ऋषौ भवः–आर्षः, न आर्षः-अनार्षः। अवैदिके इतिशब्दे परत इत्यर्थः। शाकल्यग्रहणाद्विकल्पस्तदाह–संबुद्धिनिमित्तक इति। विष्णो इतीति। अत्र ओकारो `ह्यस्वस्य गुण' इति सम्बुद्धिनिमित्तकः। अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम्। `विष्ण'वितीति प्रगृह्रत्वाऽभावे रूपम्।
86 संबुद्धौ। ऋषिर्वेदः `तदुक्तमृषिणा' इत्यादौ तथा दर्शनादित्याभिप्रेत्याह- अवैदिक इति। संबुद्धौ किम् ?। अहो इति। अत्र परत्वाद्विकल्पो मा भूत्। न च `ओ'दिति सूत्रस्य निरवकाशत्वं शङ्क्यम् , `अहो ईशा' इत्यादौ तस्य सावकाशत्वात्। इताविति किम् ?। पटोऽत्र।
TBD.