Table of Contents

<<1-1-8 —- 1-1-10>>

1-1-9 तुल्यास्यप्रयत्नं सवर्णम्

प्रथमावृत्तिः

TBD.

काशिका

तुल्यशब्दः सदृशपर्यायः. आस्ये भवमास्यं ताल्वादिस्थानम्. प्रयतनं प्रयत्नः स्पऋष्टताऽदिर्वर्णगुणः. तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसंज्ञो भवति. चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायाम् आश्रीयन्ते – स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता च इति. अ अ अ इति त्रयो ऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादशधा भिद्यन्ते. तथा इवर्णः, तथा उवर्णः, तथा ऋवर्णः. ऌवर्णस्य दीर्घा न सन्ति, तं द्वादशभेदम् आचक्षते. सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि. अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च. रेफोष्मणां सवर्णा न सन्ति. वर्ग्यो वर्ग्येण सवर्णः. दण्डाग्रम्. खट्वाग्रम्. आस्यग्रहणं किम्? कचटतपानां भिन्नस्थानानां तुल्यप्रयत्नानां मा भूत्. किं च स्यात्? तर्प्ता, तर्प्तुम् इत्यत्र झरो झरि सवर्णे 8-4-65 इति पकारस्य तकारे लोपः स्यात्. प्रयत्नग्रहणं किम्? इचुयशानां तुल्यस्थानानां भिन्नजातीयानां मा भूत्. किं च स्यात्? अरुश्च्योतति इत्यत्र झरो झरि सवर्णे 8-4-65 इति शकारस्य चकारे लोपः स्यात्. ऋकारऌकारयोः सवर्णसंज्ञा वक्तव्या. होतॢकारः. होतृकारः. उभयोः ऋवर्णस्य ऌवर्णस्य च आन्तरतमः सवर्णो दीर्घो नास्ति इति र्कार एव दीर्घो भवति. सवर्णप्रदेशाः अकः सवर्णे दीर्घः 6-1-101 इत्येवम् आदयः. (

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

सिद्धान्तकौमुदी

<< 1-1-88-4-68 >>
१० ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठ्ः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । ऌतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिव्हामूलीयस्य जिव्हामूलम् । नासिका अनुस्वारस्य । इति स्थानानि । प्रयत्नो द्विधा । आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा । स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषद्स्पृष्टमन्तस्स्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतञ्च सूत्रकारेण ज्ञापितम् । तथा हि ॥

बालमनोरमा

12 वक्ष्यन्सवर्णसंज्ञामाह–तुल्यास्य। आस्यं = मुखम्, तत्साम्यस्य सर्ववर्णेष्वविशिष्टत्वादव्यावर्तकत्वादास्यशब्दोऽत्र न मुखमात्रपरः। किन्तु आस्ये मुखे भवमास्यं = ताल्वादिस्थानम्। `शरीरावयवाद्यत्' इति भवार्थे यत्प्रत्ययः। `यस्येति च' इति प्रकृत्यन्त्यस्य अकारस्य लोपः। प्रकृष्टो यत्नः प्रयत्नः। आस्यं च प्रयत्नश्च-आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसंज्ञकं स्यादिति भावः। तदाह– ताल्वादिस्थानमित्यादिना। मिथ इति। परस्परमित्यर्थः। कस्य किं स्थानमित्याकाङ्क्षायां तद्व्यवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णाति–\र्\नकुहेत्यादिना। `अ' इत्यष्टादश भेदा गृह्रन्ते, `कु' इतदि कादिपञ्चकात्मकः कवर्गः। न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र `अ' इत्यष्टादशभेदानां ग्रहणमिति वाच्यम्। लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तेः। एवमग्रेऽपि कथञ्चित्समाधानं बोध्यम्। अश्च कुश्च हश्च विसर्जनीयश्चेति विग्रहः। विसर्जनीयशब्दोऽपि विसर्गपर्यायः। \र्\निचुयशेति। इ इत्यष्टादश भेदाः। चु इति चवर्गः। इश्च चुश्च यश्च शश्चेति विग्रहः। तालु = काकुदम्।\र्\नृटुरषेति। ऋ इत्यष्टादश भेदाः। टु इति टवर्गः। आ च टुश्च रश्च षश्चेति विग्रहः। ऋ शब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत्। इति तवर्गः। आ च तुश्च लश्च सश्चेति विग्रहः। लृशब्दस्यापि आ इत्येव प्रथमैकवचनान्तम्। आ अलौ अलः। दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः। अन्यथा भग्नदन्तस्य तदुच्चारणाऽनुपपत्तेः। \र्\नुपूपेति। उ इत्यष्टादश भेदाः। पु इति पवर्गः उश्च पुश्च उपध्मानीयश्चेति विग्रहः। उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति। स्वस्ववर्गीयस्थानसमुच्चयः।\र्\नेदैतोरिति। एच्च ऐच्च एदैतौ। तपरकरणमसंदेहार्थम्। नतु `तपरस्तत्कालस्य' इति तत्कालमात्रग्रहणार्थम्। तेन प्लुतयोरपि संग्रहः। कण्ठश्च तालु चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवत्त्वं नपुंसकत्वं च। \र्\नोदौतोरिति। ओच्च औच्च ओदौतौ। तपरकरणं पूर्ववदसंदेहार्थमेव। कण्ठश्च ओष्टौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवद्भावो नपुंसकत्वं च। दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः। एकवत्त्वं नपुंसकत्वं च

\र्\निति स्थानानीति। इति = एवंप्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः। विवक्षितम् , उत यावत्स्थानसाम्यम् ?। न तावदाद्यः, तथा सति इकारस्य एकारस्य च तालुस्थानकतया सावण्र्यापत्तौ `भवत्येवे'त्यत्र इकारादेकारे परे सवर्णदीर्घापत्तेः। न च एकारस्य वर्णसमाम्नाये पाठसामथ्र्यादिकारेण न सावण्र्यमिति वाच्यम्, एकारपाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्त्यर्थत्वसम्भवात्। किं च वकारलकारयोर्दन्तस्थानसाम्येन सावण्र्यापत्तौ `तोर्ल' इत्यत्र लकारेण वकारस्यापि ग्रहणात्तद्वानित्यत्र दकारस्य परसवर्णापत्तिः। `यवलपरे यवला वा' इत्यत्र लकारग्रहणं तु यथासंख्यार्थं भविष्यति। न द्वितीयः, तथा सति कङयोः कण्ठस्थानसाम्येऽपि ङकारस्य नासिकास्थानाधिक्येन सावण्र्याभावापत्तौ `चोः कुः', क्विन्प्रत्ययस्य' इत्यत्र ङकारस्य ग्रहणानापत्त्या प्राङित्यादौ नुमो नकारस्य `क्विन्प्रत्ययस्य' इति कुत्वेन ङकाराऽनापत्तेः। तस्मात्स्थ्#आनसाम्यं दुर्निरूपमिति चेत्, अत्र ब्राऊमः–यावत्स्थानसाम्यमेव सावण्र्यप्रयोजकम्। एवं च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावण्र्यम्। वलयोश्च न सावण्र्यम्। वकारस्य ओष्ठस्थानाधिक्यात्। एवं च ` तद्वानासाम्' `यजुष्येकेषाम्' इत्यादिनिर्देशा उपपन्नाः। ङकारस्य नासिका स्थानाधिक्येऽपि ककारेण सावण्र्यमस्त्येव, आस्यमवस्थानसाम्यस्यैव सावण्र्यप्रयोजकत्वात्, नासिकायाश्च आस्यानन्तर्गतत्वात्। उक्तं च भाष्ये-किं पुनरास्यं?, लोकिकमोष्ठात्प्रभृति प्राक्काकलकात्' इति। `काकलको नाम चुबुकस्याधस्तात् ग्रीवायामुन्नतप्रदेशः' इति कैयटः। तस्मादास्यभवयावत्स्थानसाम्यं सावण्र्यप्रयोजकमिति शब्देन्दुशेखरे विस्तरः। विवक्षित इति स्थितम्। तत्राभ्यन्तरत्वविशेषणं किमर्थम्, व्यावर्त्त्याऽभावादित्यत आह-यत्नो द्विधेति। यत्नानामाभ्यन्तरत्वं बाह्रत्वं च वर्णोत्पत्तेः प्रागूध्र्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम्। आद्य इति। आभ्यन्तयत्न इत्यर्थः। कथं चातुर्विध्यमित्यत आह-स्पृष्टेति। इत्याकाङ्क्षायां तद्व्यवस्थापकशिक्षावचनानि पठति–तत्रेति। तेषु मध्य इत्यर्थः। प्रयतनमिति। प्रयत्न इत्यर्थः। स्पर्शादिशब्दानग्रे व्याख्यास्यति। ह्यस्वस्यावर्णस्य संवृतमित्यन्वयः। एतावदेव शिक्षावचनम्। नन्वेवं दण्ड- आढकमित्यत्र अकारस्य च विवृतसंवृतप्रयत्नभेदेन सावण्र्याऽभावात्सवर्णदीर्घो न स्यादित्यत आह-प्रयोग इति। शास्त्रीयप्रक्रियाभिः परिनिष्ठितानां रामः कृष्ण इत्यादिशब्दानां प्रयोगे क्रियमाण एव ह्यस्वस्याऽवर्णस्य संवृतत्वमित्यर्थः। प्रक्रियेति। शास्त्रीयकार्यप्रवृत्तिसमये तु ह्यस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थः। शिक्षावचनसिद्धं स्वाभाविकं ह्यस्वावर्णस्य संवृतत्वं प्रच्याव्य शास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्नशास्त्रीयप्रक्रियासमये ह्यस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाठतमिच्यादौ सवर्णदीर्घादिकार्यं निर्बाधकमिति ऐउणिति सूत्रभाष्ये स्पष्टम्। एवंच `ह्यस्वस्याऽवर्णस्य संवृत'मिति शिक्षावचनं परिशेषात्परिनिष्ठतदशायामेव पर्यवस्यतीति न तदानर्थक्यमिति भावः। अयं च शिक्षावचनसङ्कोचः सूत्रकारस्यापि संमत इत्याह-एतच्चेति॥ तदेवोपपादयितुं प्रतिजानीते-तथा हीति। यथा एतज्ज्ञापितं भवति तथा स्पष्टमुपपाद्यत इत्यर्थः।

तत्त्वबोधिनी

12 तुल्यास्य। आस्ये भवमास्यं `शरीरावयवाद्यत्' इत्यभिप्रेत्याह-ताल्वादीति॥ आभ्यन्तरेति। एतच्च प्रशब्दबलाल्लभ्यते। ओष्ठात्प्रभृति प्राककाकलकादास्यम्। तुल्यास्यं किम् ?, तर्प्ता। अत्र पकारस्य तकारे परे `झरो झरि' इति लोपो मा भूत्। प्रयत्नग्रहणं किम्, वाक्श्चोतति। अत्र शस्य लोपो न॥ ञमङणनानामिति। नासिका चेति। चकारेण स्ववर्गानुकूलं ताल्वादि समुच्चीयते॥ एदैतोरित्यादौ तपरत्वमसंदेहार्थं, न तत्कालग्रहणार्थम्। तेन प्लुतस्यापि संग्रहः॥ चतुर्धेति। निष्कर्षपक्षे तु पञ्चधा, ऊष्माणामीषद्विवृतप्रयत्नाभ्युपगमात्॥ स्पृष्टेषत्स्पृष्टेति। एतेषामाभ्यन्तरत्वं, वर्णोत्पत्तिप्राग्भावित्वात्। तथाहि-नाभिप्रदेशात्प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमाक्रामन्नुरःप्रभृतीनि स्थानान्याहन्ति, ततो वर्णस्य तदभिव्यञ्जकध्वनेर्षा उत्पत्तिः। तत्रोत्पत्ते प्राग्यदा जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता, ईषद्यदा स्पृशन्ति तदा ईषत्स्पृष्टता, समीपावस्थानमात्रे संवृतता, दूरत्वे विवृतता। अत एव इचुयशानां तालव्यत्वाऽविशेषेऽपि तालुस्थानेन सह जिह्वाग्रादीनां चवर्गोच्चारणे कर्तव्ये सम्यक् स्पर्शः, यकारे ईषत्सपर्शः , शकारेकारयोस्तु दूराऽवस्थितिरित्याद्यनुभवं, शिक्षाकारोकिं?त चानुसृत्य विवेचनीयम्। विवारसंवारादयस्तु वर्णोत्पत्तेः पश्चान्मू\उfffद्ध्न प्रतिहते निवृत्ते प्राणाख्ये वायावुत्पद्यन्त इति बाह्रा इत्युच्यन्ते। गलबलिस्य संकोचात्संवारः, तस्यैव विकासाद्विवारः। एतौ च संवृतविवृतरूपाभ्यामाभ्यन्तराभ्यां भिन्नावेव। तयोः समीपदूरावस्थानात्मकत्वादित्यवधेयम्।

Satishji's सूत्र-सूचिः

TBD.