Table of Contents

<<1-1-10 —- 1-1-12>>

1-1-11 ईदूदेद्द्विवचनं प्रगृह्यम्

प्रथमावृत्तिः

TBD.

काशिका

ईतूतेतित्येवमन्तं द्विवचनं शब्दरूपं प्रग्र्ह्यसंज्ञं भवति। अग्नी इति। वायु इति। माले इति। पचेते इति। ईदूदेतिति किम्? वृक्षावत्र। प्लक्षावत्र। द्विवचनम् इति किम्? कुमार्यत्र। किशोर्यत्र। तपरकरणम् असंदेहार्थम्। प्रगृह्यप्रदेशाः प्लुतप्रगृह्या अचि नित्यम् 6-1-125 इत्येवम् आदयः। ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः। मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम। दम्पतीव। जम्पतीव। रोदसीव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

51 ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्. हरी एतौ. विष्णू इमौ. गङ्गे अमू..

बालमनोरमा

101 ईदूदेद्द्विचनम्। ईच्च ऊच्च एच्चेति समाहारद्वन्द्वः। ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः। `द्विवचन'मित्यनेन तु प्रत्ययत्वे।ञपि न तदन्तं गृह्रते, `संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती'ति तन्निषेधात्। तदाह– ईदूदेदन्तमित्यादिना। हरी एताविति। अत्र ईकारस्य परादिवत्त्वाश्रयणाद्द्विवचनत्वम्। प्रगृह्रत्वे सति `प्लुतप्रगृह्रा' इति प्रकृतिभावान्न यण्। विष्णू इमावित्यत्राप्येवम्। गङ्गे अमू इत्यत्र त्वयादेशो न भवति। `ईदूदेदन्त'मिति तदन्तविधेः प्रयोजनं दर्शयितुमाह-पचेते इमाविति। तदन्तविध्यबावे ईदूदेदात्मकं द्विवचनं प्रगृह्रमिति लभ्येत। एवं सति `पचेते' इत्यत्र `इते इति द्विवचनस्य एद्रूपत्वाऽभावात्प्रगृह्रत्वं न स्यादिति भावः। `ईदूदेदन्तं यद्द्विचनान्त'मिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात्। `ईदूदेदन्तं द्विवचन'मिति व्याख्याने तु नातिप्रसङ्गः, ओसो द्विवचनस्य ईदूदेदन्तत्वाऽभावात्। ननु `मणीवोष्ट्रस्य सम्बेते प्रियौ वत्सतरौ ममे'ति भारतश्लोके `मणी इवे'ति ईकारस्य प्रगृह्रत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह-मणीवोष्ट्रस्येति। `वं प्रचेतसि जानीयादिवार्थे च तदव्यय'मिति मेदिनी। `व वा यथा तथैवैवं साम्ये'इत्यमरः।

तत्त्वबोधिनी

81 ईदूदेदन्तमिति। अत्र विशेणेन तदन्तविध्याश्रयणं किम् ?। `पचेते इमा'-विति यथा स्यात्। `हरी' `विष्णू' इत्यादिष्वेकादेशस्य परादिवद्भावाश्रयेण ईकारादीनां द्विवचनत्वादीदूदेद्रूपं द्विवचनमित्युक्तेऽपि प्रगृह्रत्वं सिध्यतीति बोध्यम्। द्विवचनमिति। `संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति', `सुप्तिङन्त'- मित्यन्तग्रहणाज्ज्ञापकात्। तेन कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति सिद्धम्। `द्विवचनान्तं प्रगृह्रं स्या'दिति व्याकुर्वतः प्राचस्तु नेदं सिध्येत्। हरी एताविति। इह ह्यस्वसमुच्चितप्रकृतिभावो न, `प्लुतप्रगृह्राः' इत्यत्र नित्यग्रहणादित्युक्तम्। अत्र वृत्तिकारेण–`मणीवादीनां प्रतिषेधो वक्तव्यः' इति पठित्वा `मणीव' `रोदसीव' `जंपतीवे'त्युदाह्मतम्। तच्च मुनित्रयानुक्तत्वादप्रमाणमिति कैयटादयः। एवं स्थिते `मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममे'ति भारतप्रयोगं समर्थयते–इवार्थे इति। वशब्द इत्यादि। `वं प्रचेतसि जानीयादिवार्थे च तदव्यय'मिति मेदिनी। `व वा यथा तथैवैवं साम्ये' इत्यमरः। कादम्बखण्डितदलानि व पङ्कजानी'त्यादिप्रयोगदर्शनाच्चेति भावः।

Satishji's सूत्र-सूचिः

वृत्ति: ईदूदेदन्‍तं द्विवचनं प्रगृह्यं स्‍यात् । A dual number affix ending in the letter “ई”, “ऊ” or “ए” gets the designation “प्रगृह्य”।

गीतासु उदाहरणम् – श्लोकः bg13-19

अनादी + उभौ The ending ईकारः of the word अनादी (द्वितीया-द्विवचनम्) gets the designation “प्रगृह्य” by 1-1-11.

Example continued under 6-1-125