Table of Contents

<<8-4-66 —- 1-1-1>>

8-4-67 न उदात्तस्वरितोदयम् अगार्घ्यकाश्यपगालवानाम्

प्रथमावृत्तिः

TBD.

काशिका

उदत्तोदयस्य स्वरितोदयस्य च अनुदात्तस्य स्वरितो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते, अगार्ग्यकाश्यपगालवानां मतेन। उदात्त उदयो यस्मात् स उदात्तोदयः। उदात्तपरः इत्यर्थः। एवं स्वरितोदयः। उदात्तो दयस्तावत् गार्ग्यस्तत्र। वात्स्यस्तत्र। तत्रशब्द आद्युदात्तः। तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति। स्वरितोदयः गार्ग्यः क्व। वात्स्यः क्व। क्वशब्दः स्वरितः, तस्मिन् परतः अनुदात्तः स्वरितो न भवति। अगार्ग्यकाश्यपगालवानाम् इति किम्? गार्ग्यस् तत्र। गार्ग्यः क्व। तेषां हि मतेन स्वरितो भवत्येव। उदात्तस्वरितपरस्य इति वक्तव्ये उदयग्रहणं मङ्गलार्थम्। अनेकाचार्यसङ्कीर्तनं पूजार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.