Table of Contents

<<7-1-103 —- 7-2-2>>

7-2-1 सिचि वृद्धिः परस्मैपदेषु

प्रथमावृत्तिः

TBD.

काशिका

परस्मैपदपरे सिचि परतः इगन्तस्य अङ्गस्य वृद्धिर् भवति। अचैषीत्। अनैषीत्। अलावीत्। अपावीत्। अकार्षीत्। अहार्षीत्। अन्तरङ्गम् अपि गुणम् एषां वृद्धिर्वचनाद् बाधते। न्यनुवीत्, न्यधुवीतित्यत्र कुटादित्वात् ङित्त्वे सति प्रतिषिद्धायां वृद्धौ उवङादेशः क्रियते। परस्मैपदेषु इति किम्? अच्योष्ट। अप्लोष्ट।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

486 इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि. अक्षैषीत्. अक्षेष्यत्.. तप सन्तापे.. 14.. तपति. तताप. तेपतुः. तेपुः. तेपिथ, ततप्थ. तेपिव. तेपिम. तप्ता. तप्स्यति. तपतु. अतपत्. तपेत्. तप्यात्. अताप्सीत्. अताप्ताम्. अतप्स्यत्.. क्रमु पादविक्षेपे.. 15..

बालमनोरमा

140 अथ लुङि सिचि वीभावे `सार्वधातुकाद्र्धधातुकयो'रिति गुणे प्राप्ते– सिचि वृद्धिः। इगन्तस्येति। वृद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणं, तदन्तविधिरिति भावः। एवं च अकोषीत्यादौ व्यञ्जनस्य न वृद्धिः। अवैषीदिति। लुङिस्तिप्। इकारलोपः। सिचि वीभावः। `एकाच' इति इण्निषेधः। वृद्धिः। अडागमः। षत्वम्। आजीदिति। सिज्लोपः। `वदव्रजे'ति हलन्तलक्षणायां वृद्धौ `नेटी'ति निषिद्धायामाडागमे `आटश्चे'ति वृद्धिः। लृङि अवेष्यत् आजिष्यत्। तेज पालन इत्यादि। स्पष्टम्। एजृ कम्पन इति। दीप्तौ त्वात्मनेपदी गतः। टु ओ स्फूर्जेति। `आदिर्ञिटुडव' इति टुरित्, उपदेशेऽनुनासिकत्वादोकार आकारश्च इत्। `ट्वितोऽथु'जित्थथुच्, `आदितश्चे'ति निष्ठानत्वम्, `ओदितश्चे'ति निष्ठायामिण्निषेधश्च। तत्फलानि। `उपधायां चे'ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः। तेन हुर्छतीत्यादौ न दीर्घ इत्याहुः। स्फूर्जतीति। लिटि– पुस्फूर्ज, अस्फूर्जीत्। क्षि क्षय इति। क्षयो–नाशः। अन्तर्भावितण्यर्थ इति। नाशनार्थक इत्यर्थः। अजन्तेष्वेवास्य पाठो युक्तः। क्षयतीति। नश्यतीत्यर्थः,नाशयतीति वा। शपि गुणेऽयादेशः। चिक्षायेति। णलि वृद्धिः। आयादेशः। चिक्षियतुरिति। `असंयोगा'दिति कित्त्वान् गुणः। इयङ्। चिक्षयिथ– चिक्षेथेति। पित्त्वेन कित्त्वाऽभावाद्गुणः। अजन्तत्वात्तासौ नित्याऽनिट्त्वाच्च भारद्वाजनियमात्थलि वेट्। इट्पक्षेऽयादेशः। चिक्षियथुः। चिक्षिय। चिक्षाय चिक्षय। वस्मसोस्तु क्रादिनियमान्नित्मिट्। तदाह—चिक्षियिव चिक्षियिमेति। क्षेता। क्षेष्यति। क्षयतु। अक्षयत्। क्षयेत्।

तत्त्वबोधिनी

115 `इको गुणवृद्धी' इति परिभाषोपस्थानादाह– इगन्तेति। परस्मैपदेष्विति किम् ?। अधविष्ट। अधोष्ट। सिचि किम् ?। एति। बिभर्ति। गुणं बाधित्वा वृद्धिः स्यात्। खज मन्थे। कजेति केचित्पठन्ति। एजृ कम्पने। दीप्तौ त्वात्मनेपदी गतः। टुओस्फूर्जा। `ट्वनितोऽथुच्ट। स्फूर्जथुः। `ओदितश्चे'ति निष्ठानत्वार्थमोकारः। स्फूर्ग्णः। स्फूर्ग्णवान्। आकारस्तु `ओदितश्च' इति निष्ठायामिटो निषेधार्थः, `विभाषा भावादिकर्मणो'रिति विकल्पार्थश्चास्फूर्ग्ण, स्फूर्जितमनेनेत्यादि। `उपधायां चे'ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घोपदेशः। तेन हुच्र्छति मुच्र्छति इत्यपि भवतीति केचित्। क्षि क्षये। अजन्तेष्वस्य पाठो युक्तः। `क्षि निवासगत्यो'रिति तुदादौ।

Satishji's सूत्र-सूचिः

वृत्ति: इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

गीतासु उदाहरणम् – अश्रौषम् derived from √श्रु (श्रु श्रवणे १. १०९२). विवक्षा is लुँङ्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।

संवादमिममश्रौषमद्भुतं रोमहर्षणम्‌ || 18-74||

श्रु + लुँङ् 3-2-110
= श्रु + ल् 1-3-2, 1-3-3, 1-3-9
= श्रु + मिप् 3-4-78, 1-4-101, 1-4-102, 1-4-107
= श्रु + अम् 3-4-101. 1-3-4 prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
= श्रु + च्लि + अम् 3-1-43
= श्रु + सिँच् + अम् 3-1-44
= श्रु + स् + अम् 1-3-2, 1-3-3, 1-3-9. 7-2-10 stops 7-2-35.
= श्रौ + स् + अम् 7-2-1
= अट् श्रौसम् 6-4-71, 1-1-46
= अश्रौसम् 1-3-3, 1-3-9
= अश्रौषम् 8-3-59