Table of Contents

<<8-4-8 —- 8-4-10>>

8-4-9 पानं देशे

प्रथमावृत्तिः

TBD.

काशिका

पाननकारस्य पूर्वपदस्थान् निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति। पीयते इति पानम्। कृत्यल्युटो बहुलम् 3-3-113 इति कर्मणि ल्युत्। क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। मनुष्याभिधाने ऽपि देशाभिधानं गम्यते। सुरापाणाः प्राच्याः। सौवीरपाणा बाह्लीकाः। कषायपाणाः गान्धाराः। देशे इति किम्? दाक्षीणां पानम् दाक्षिपानम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1038 पानं देशे। `पान'मिति षष्ठ\उfffद्र्थे प्रथमेत्यभिप्रेत्याह–पानस्येति। उशीनरा इति। देशविशेषे बहुवचनान्तोऽयम्। ननु पानशब्दस्य भावस्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह–पीयते इति।

तत्त्वबोधिनी

869 क्षीरपाणमिति। पीतिः–पानं। `ल्युट् चे'ति नपुंसके भावे ल्युट्। पीयते अनेनेति पानं। करणे ल्युट्। क्षीरस्य पानं क्षीरपाणम्। गिरिनद्यादीनां वेति। `वक्तव्य'मिति शेषः। संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते उभयत्र विभाषेत्याहुः।

Satishji's सूत्र-सूचिः

TBD.