Table of Contents

<<8-4-9 —- 8-4-11>>

8-4-10 वा भावकरणयोः

प्रथमावृत्तिः

TBD.

काशिका

भावे करणे च यः पानशब्दः तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थानिमित्तादुत्तरस्य। क्षीरपाणं वर्तते, क्षीरपानम्। कषायपाणम्, कषायपानम्। सुरापाणम्, सुरापानम्। करणे क्षीरपाणः कंसः, क्षीरपानः। वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम्। गिरिणदी, गिरिनदी। चक्रणदी, चक्रनदी। चक्रणितम्बा, चक्रनितम्बा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1039 वा भावकरणयोः इत्येवेति। अनुवर्तत एवेत्यर्थः। भावे करणे च यः पानशब्दस्तस्य उक्तविषये णो वा स्यादित्यर्थः। आदेशार्थं वचनम्। क्षीरपानं क्षीरपाणमिति। क्षीरस्य पानमिति विग्रहः। भावे करणे वा ल्युट्। पानक्रिया, पानपात्रं वेत्यर्थः।

वेत्युपसङ्ख्यानमित्यर्थः। गिरेर्नदीति विग्रहः। चक्रनितम्बेति। चक्रमिव नितम्बो यस्याः सा इति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.