Table of Contents

<<8-4-7 —- 8-4-9>>

8-4-8 वाहनम् आहितात्

प्रथमावृत्तिः

TBD.

काशिका

आहितवाचि यत् पूर्वपदं तत्स्थान् निमित्तादुत्तरस्यवाहननकारस्य णकार आदेशो भवति। इक्षुवाहणम्। शरवाहणम्। दर्भवाहणम्। वाहने यदारोपितम् उह्यते तदाहितम् उच्यते। आहितातिति किम्? दाक्षिवाहनम्। दाक्षिस्वामिकं वाहनम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1037 वाहनमाहितात्। वाहने आधीयते वहनाय यत्, नतु स्वयमेवारोढुं शक्नोति तदाहितम्। तदाह–आरोप्येति। निमित्तादिति। रेफषकारान्यतरस्मादित्यर्थः। वाहननकारस्येति। वाहनस्य यो नकारस्तस्येत्यर्थः। अनेन सूत्रे वाहनमिति षष्ठ\उfffद्र्थे प्रथमेति सूचितम्। इक्षुवाहणमिति। `इक्षवो हि वहनाय परैरारीप्यन्ते, नतु स्वयमेवारोढुं शक्नुवन्ती'ति तेषामाहितत्वं बोध्यम्। आरोपितेश्रुयुक्तं शकटादिवाहनमिति यावत्। इन्द्रवाहनमिति। ननु वहेः करणे ल्युटि कथमुपधादीर्घः, ञ्णित्प्रत्ययपरकत्वाऽभावादित्यत आह–वहेर्ल्युटीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.