Table of Contents

<<8-4-59 —- 8-4-61>>

8-4-60 तोर् लि

प्रथमावृत्तिः

TBD.

काशिका

तवर्गस्य लकारे परतः परसवर्णादेशो भवति। अग्निचिल्लुनाति। सोमसुल्लुनाति। भवाम्\उ0310ल्लुनाति। महाम्\उ0310ल्लुनाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

69 तवर्गस्य लकारे परे परसवर्णः. तवर्गस्य लकारे परे परसवर्णः. तल्लयः. विद्वांल्लिखति. नस्यानुनासिको लः.

बालमनोरमा

118 तोर्लि। `अनुस्वारस्य ययी'त्यतः `परसवर्णः' इत्यनुवर्तते। तदाह– तवर्गस्येत्यादिना। तल्लय इति। तस्य-लय इति विग्रहः। तदा-लय इति स्थिते दस्य परसवर्णः=परनिमित्तभूतलकारसवर्णो भवति, स च लकार एव, अन्यस्य तत्सावण्र्याऽभावात्। अत्र नकारस्येति। विद्वान्-लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिनोऽनुनासिकस्य परसवर्णो लकारो भवन्नान्तर्यादनुनासिक एव लकारो भवतीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

30) तोर्लि 8-4-60

वृत्ति: तवर्गस्य लकारे परतः परसवर्णादेशो भवति । When the letter ल् follows, then in place of any of the five dental letters (त् etc) there is a substitute which is परसवर्ण: (सवर्ण: with the following letter ल्). This implies that त्, थ्, द् or ध् will change to ल् ; but न् will change to ल्ँ

गीतासु उदाहरणम् – श्लोकः bg18-17

इमान् + लोकान् = इमाल्ँलोकान्