Table of Contents

<<8-4-60 —- 8-4-62>>

8-4-61 उदः स्थास्तम्भोः पूर्वस्य

प्रथमावृत्तिः

TBD.

काशिका

सवर्णः इति वर्तते। उदः उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति। उत्थाता। उत्थातुम्। उत्थातव्यम्। स्तम्भेः खल्वपि उत्तम्भिता। उत्तम्भितुम्। उत्तम्भितव्यम्। स्थास्तम्भोः इति किम्? उत्स्नाता। उदः पूर्वसवर्नत्वे स्कन्देश् छन्दस्युपसङ्ख्यानम्। अग्ने दूरम् उत्कन्दः। रोगे च इति वक्तव्यम्। उत्कन्दको नाम रोगः। कन्दतेर् वा धात्वन्तरस्य एतद् रूपम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

119 उदः स्थास्तम्भोः। `अनुस्वारस्य ययि परसवर्णः' इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात्। `उद' इति पञ्चमी। अतस्तस्मादित्युत्तरस्येति परिभाषया `उदःपरयो'रिति लभ्यते। तदाह–उदः परयोरिति। पूर्वेति। पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः। पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह–आदेः परस्येति। अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः। उत्थानमिति। `ष्ठा गतिनिवृत्तौ'। भावे ल्युट्। उत्तम्भनमिति। `ष्टभि प्रतिष्टम्भे' भावे ल्युट्। `स्तम्भु रोधने' इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः। `स्थास्तम्भो'रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात्। ननु उद्- स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव। दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु लृकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात्। नापि लकारः, ईषत्स्पृष्टत्वात्। एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः। ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्। आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात्। स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात्। अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह–अत्राऽघोषस्येति। `अघोषस्ये'त्यनेन \उfffदाआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात्। स्थानीभूतस्तावत्सकारोऽत्राघोष\उfffदाआसविवारमहाप्राणात्मकयत्नचतुष्टवान्। तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात्। नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात्। द्वितीयस्तु थकारोऽघोष\उfffदाआसविवारमहाप्राणात्मकयत्नचतुष्टयवान्। अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः। एवं च उद्-स्थानमिति स्थिते दकारस्य `खरि चे'ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम्। एवं उत्थतम्भनमित्यत्रापि योज्यम्। तत्र द्वितकारमेकथकारं चेति विशेषः। तस्येति। सकारादेशस्य थकारस्येत्यर्थः। एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः। ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम्। प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह–लोपाभावेति। असिद्धत्वादिति। `खरि चे'ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः। उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः। उक्तप्रक्रियाया उभयत्रापि साधारण्यात्। केचित्तु `न मुने' इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः। तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात्। वस्तुतस्तु `दीर्घादाचार्याणा'मित्युत्तरम्। अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्?सूत्रीपाठोत्तरं `झलाञ्जश् झशि', अभ्यासे चर्च', `खरि च', `वाऽवसाने', `अणोऽप्रगृह्रास्यानुनासिकः', इति पञ्चसूत्रीपाठ इति `हलो यमा'मिति सूत्रस्थभाष्यसंमतः सूत्रकमः। एवं च `खरि चे'ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम्।

तत्त्वबोधिनी

95 उदः स्था। `अनुस्वारस्य ययी'त्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य संबध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्यमिप्रेत्याह–पूर्वसवर्णः स्यादिति॥

Satishji's सूत्र-सूचिः

Video

वृत्तिः उदः परयोः स्‍थास्‍तम्‍भोः पूर्वसवर्णः। When preceded by the prefix “उद्” the (सकार:) of “स्था” or “स्तम्भ्” is replaced by a letter (थकार:) which is सवर्ण: (homogenous) with the prior letter (दकार:)।

Example continued from 3-2-4

आखूत्स्थ
= आखूत्थ्थ 8-4-61, 1-1-54, 1-1-50
= आखूत्थ्थ/आखूत्थ 8-4-65