Table of Contents

<<8-4-48 —- 8-4-50>>

8-4-49 शरो ऽचि

प्रथमावृत्तिः

TBD.

काशिका

न इति वर्सते। शरो ऽचि परतः न द्वे भवतः। अचो रहाभ्यां द्वे 8-4-46 इति प्राप्तिः प्रतिषिध्यते। कर्षति। वर्षति। आकर्षः। अक्षदर्शः। अचि इति किम्? दर्श्श्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

271 अचि परे शरो न द्वे स्तः. चतुर्षु..

बालमनोरमा

शरोऽचि। `अचो रहाभ्या'मित्यतो `द्वे' इति, `नादिन्याक्रोशे' इत्यतो नेति चानुवर्तते। तदाह अचि पर इत्यादिना। तथाच `चतुर्षु' इत्येकषकारमेव रूपम्। नच सत्यपि द्वित्वे `झरो झरि सवर्णे' इति लोपादेव एतषकाररूपसिद्धेरिदं व्यर्थमिति वाच्यं, लोपस्य वैकल्पिकत्वादिति भावः। प्रियाश्चत्वारो यस्येति बहुव्रीहौ प्रियचतुर्शब्दो विशेष्यनिघ्न एकद्विबहुवचनान्तः। तस्य सौ रूपमाह–प्रियचत्वा इति। प्रियचतुर् स् इति स्थिते `चतुरनडुहोः' इत्युकारादाम्। तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्तेः। तत उकारस्य यण्। हल्ङ्यादिलोपश्चेति भावः। हे प्रियचत्व इति। `अम् संबुद्धौ' इत्यमिति भावः। प्रयिचत्वाराविति। सुटि सर्वनामस्थानत्वादाम्। प्रियचत्वारः। प्रियचत्वारम्, प्रयिचत्वारौ। शसादावाम् न। प्रियचतुरः। प्रियचतुरा प्रियचतुभ्र्याम् प्रियचतुर्भिः। प्रियचतुरे। प्रयिचतुरः 2। प्रियचतुरोः। आमि `षट्चतुभ्र्यश्चे'ति नुटमाशङ्क्याह–गौणत्वे त्विति। `षट्चतुभ्र्यश्चे'ति बहुवचननिर्देशात्तदर्थप्राधान्य एव नुडिति भावः। प्रियचतुरि। प्रयिचतुर्षु। परमचतुर्ण्णामिति। कर्मधारयः। आङ्गत्वात्तदन्तादपि नुटिति भावः। इति रान्ता#ः। अथ लकारान्ताः। कमलमिति। कमलं=पद्मम्। कमला=लक्ष्मीः। कमलमाचष्टे इत्यर्थे कमलशब्दात्, कमलामाचष्टे इत्यर्थे कमलाशब्दा`त्तत्करोति तदाचष्टे' इति णिचि `सनाद्यन्ताः' इति धातुत्वात्तदवयवस्य सुपो लुकि `णाविष्ठत्प्रातिपदिकस्ये'ति इष्ठवत्त्वाट्टिलोपे कमव्-इ इत्यतः कत्र्तरि क्विपि णेरनिटीति णिलोपे अपृक्तलोपे च कमलिति रूपम्। ततः सोर्हल्ङ्यादिलोपे कमलिति रूपम्। कमलाविति। औजसादिषु न कोऽपि विकार इति भावः। कमलं कमलौ कमलः। कमला कमल्भ्यां कमल्भिः। कमले। कमल्भ्यः। कमलः। कमलः कमलोः कमलाम्। सुपि विशेषमाह–षत्वं कमल्ष्विति। लकारस्य इण्त्वादिति भावः। तोयमाचष्टे तोयित्यादियकारान्तास्तु न सन्त्येव, क्विपि `लोपो व्योः इति यलोपस्य दुर्वारत्वा। णिलोपस्य स्थानिवत्त्वं तु न भवति, यलोपे तन्निषेधात्। वस्तुतस्तु `न पदान्ता हलो यणः सन्ती'ति लण्सूत्रस्थभाष्यादनभिधानमेवंजातीयकानामिति हरदत्तः। `भोभगो' इति सूत्रे `वृक्षव्करोती'ति भाष्यं तु एकदेश्युक्तिरिति तदाशय इत्यलम्। इति लान्ताः।

तत्त्वबोधिनी

300 शरोऽचि। `अचो रहाम्भा'मित्यतो `द्वे'इति, `नादिन्याक्रोशे'इत्यतो `ने'ति चानुवर्तत इत्याह–न द्वे स्त इति। नन्वस्तु द्वित्वमेकस्य, `झरो झरि सवर्णे'इति लोपे सिद्धमिष्टम्, मैवम्, लोपस्य वैकल्पिकत्वेन पक्षे द्वयोः श्रवणप्रसङ्गात्। प्रियाः चत्वारश्चत्वारि वा यस्य स `प्रियचत्वाः'। आङ्गत्वात्तदन्तस्यापि `चतुरनडुहो'रित्याम्। `हे प्रियचत्व'इत्यत्र तु `अम्सबुद्धौ'इत्यम्। इति रान्ताः। कमलमिति।`कमला श्रीर्हरिप्रिये'त्यमरः। कमलमिति। `तत्करोति तदाचष्टे'इति णिचीष्ठवद्भावाट्टिलोपः। णिजन्तात्क्विपि, `णेरनिटी'ति णिलोपः। एवं सलिलमाचक्षाणः- -`सलिलौ' `सलिल'इत्यादि बोध्यम्। नन्वेवं तोयमाचक्षाणस्तय् तोयौ तोय इति यान्ता अपि सुसाधाः। न च `वेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन'ति यलोपः शङ्क्यः, `लोपो व्योर्वली'ति लोपे कर्तव्ये णिलोपस्य टिलोपस्या वा स्थानिवद्भावेन यकारस्य वल्परत्वाऽभावादिति चेन्मैवम्, `न पदान्ते'ति सूत्रेण यलोपे स्थानिवद्भावनिषेधात्। तस्माल्लोपो व्योर्वलीति यलोपः स्यादेवेति यान्ता नोक्ताः। इति लान्ताः। पदान्त इति। प्राचा तु `झलि'त्यप्युक्तं, तन्निष्फलत्वादुपेक्ष्यम्।

Satishji's सूत्र-सूचिः

182) शरोऽचि 8-4-49

वृत्ति: अचि परे शरो न द्वे स्तः। When a vowel follows, शर् letters (श्, ष्, स्) do not double.

Example continued:

चतुर्षु The optional duplication of the षकारः by 8-4-46 is stopped by 8-4-49 to give चतुर्षु as the only final form.