Table of Contents

<<8-4-36 —- 8-4-38>>

8-4-37 पदान्तस्य

प्रथमावृत्तिः

TBD.

काशिका

पदान्तस्य नकारस्य णकारादेशो न भवति। वृक्षान्। प्लक्षान्। अरीन्। गिरीन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

139 नस्य णो न. रामान्..

बालमनोरमा

197 पदान्तस्य। `रषाभ्यां नो ण' इत्यनुवर्तते ` न भाभूपू' इत्यतो `ने'ति च, तदाह– पदान्तस्येति। अथ तृतीयाविभक्तिः। तत्र टा इति टकारस्य `चुटू' इतीत्संज्ञायां लोपः। टकारोच्चारणं तु `टाङसिङसां' `द्वितीयाटौस्स्वि'त्यादौ विशेषणार्थम्।

तत्त्वबोधिनी

165 णत्वं न स्यादिति। `न भाभूपूकमिगमी'त्यतो `ने'त्यनुवर्तत इति भावः।

Satishji's सूत्र-सूचिः

58) पदान्तस्य 8-4-37

वृत्ति: नस्य णो न । The letter न् is not replaced by ण् when it is at the end of a पदम्.

गीतासु उदाहरणम् – श्लोकः bg1-26

The न् of आचार्यान् does not change to ण् even though all the conditions of the prior rule are satisfied, because आचार्यान् has the पद-संज्ञा by 1-4-14.