Table of Contents

<<8-4-35 —- 8-4-37>>

8-4-36 नशेः षान्तस्य

प्रथमावृत्तिः

TBD.

काशिका

न इति वर्तते। नशेः षकारान्तस्य णकारादेशो न भवति। प्रनष्टः। परिनष्टः। षान्तस्य इति किम्? प्रणश्यति। परिणश्यति। अन्तग्रहणं षान्तभूतपूर्वमात्रस्य अपि यथा स्यात्, प्रनङ्क्ष्यति। परिनङ्क्षयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

348 नशे षान्तस्य। `रषाभ्या'मित्यतो ण इति, `न भाभूपू' इत्यतो नेति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति– णत्वं न स्यादिति। षान्तस्येति किम् ?। प्रणश्यति। भूतपूर्वेति. पूर्वं षकारस्य सत इदानीमादेशवशेन षान्तत्वाऽभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः। प्रनङ्क्ष्यतीति। अत्र षस्य कत्वे कृतेऽपि भूतपूर्वगत्या षान्तत्वान्न णत्वमिति भावः। तृप प्रीणने। तृप्तिस्तर्पणं चेति। आद्येऽकर्मकः। द्वितीये सकर्मकः। रधादित्वाद्वेडिति मत्वाह–ततर्पिथ ततर्प्थेति। तत्रप्थेति च। `अनुदात्तस्य चर्दुपधास्ये'त्यमिति भावः। ततृपिव– ततृप्व।सिज्वेति। पक्षे पुषाद्याङिति भावः। रधादित्वादिड्विकल्पः। तत्र सिचि इट्पक्षे आह–अतर्पीदिति। इडभावपक्षे आह—अतार्प्सीदिति। रहलन्तलक्षणा वृद्धिरिति भावः। `अनुदात्तस्य चे'त्यम्पक्षे आह—अत्राप्सीदिति। पुषाद्यङ्पक्षे आह- - अतृपदिति। ङित्त्वान्न गुण इति भावः। दृप हर्षे इति। तृपधातुवत्। ननु रधादित्वादेव वेट्कत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह- - रदादित्वादिमौ वेट्कावमर्थमनुदात्ततेति। द्रुह जिघांसायाम्। अनुदात्तत्वाऽभावेऽपि रदादित्वाद्वेट्। तत्र इडभावे आह– वा द्रुहमुहेति। ध्रोक्ष्यतीति। `वा द्रुहे'ति घत्वपक्षे दकारस्य भषि घस्य चर्त्वे सस्य षत्वे रूपम्। ढत्वपक्षेऽपि `षढो'रिति कत्वे एतदेव रूपम्. तदाह–ढत्वघत्वयोस्तुल्यं रूपमिति। अद्रुहदिति. पुषादित्वादङिति भावः। मुहदातुरनुदात्तत्वाऽभावेऽपि रधादिद्वेट्।मुमोहिथेति। इट्पक्षे रूपम्। अनिट्पक्षे तु `वा द्रुहमुहे'ति घत्वं मत्वाऽऽह –मुमोग्धेति। ढत्वपक्षे आह–मुमोढेति। मोक्ष्यतीति। घत्वढत्वयोस्तुल्यं रूपम्। ष्णुह ष्णिहेति। षोपदेशौ। तदाह— सुष्णोह सिष्णेहेति। थलादावनिट्पक्षे `वा द्रुहे'ति घत्वविकल्पः। पक्षे ढः। इतिरधादयः। आ गणान्तादिति। दिवादिगणसमाप्तिपर्यन्ताः पुषादय इत्यर्थः। सिद्धान्त इति। माधवादिभिस्तथाऽभ्युपगमादिति भावः। उपशमे इति. उपशमो– नाशः, इन्द्रियनिग्रहश्च।

तत्त्वबोधिनी

305 नशेः। `न बाभूपूकमिगनी'त्यतो नेत्यनुवर्तते। तदाह– णत्वं न स्यादिति। `षस्ये'त्युक्तेऽपि पदस्येत्यस्य विशेषणेन षान्तस्येति लाभादन्तग्रहणं व्यर्थं सज्ज्ञापयतीत्याह— भूतपूर्वेति। काष्ठानामिति। करणस्य शेषत्वविवक्षायां षष्ठी। तत्रप्थेति। `अनुदात्तस्य चर्दुपधस्ये'ति विकल्पेनाऽमागमः। रधादय इति। रधनशतृपदृपद्रुहमुहष्णुहष्णिह इत्यर्थः। उदित्तवाक्त्वायां वेट्। शमित्वा। शान्त्वा। `यस्य विभाषे'ति निष्ठायामनिट्। शान्तः।

Satishji's सूत्र-सूचिः

TBD.