Table of Contents

<<8-4-28 —- 8-4-30>>

8-4-29 कृत्यचः

प्रथमावृत्तिः

TBD.

काशिका

कृत्स्थः यो नकारः अचः उत्तरः तस्य उपसर्गस्थान् निमित्तादुत्तरस्य णकारादेशो भवति। अन, मान, अनीय, अनि, निष्ठादेश एते णत्वं प्रयोजयन्ति। अन प्रयाणम्। परियाणम्। प्रमणम्। परिमाणम्। मान प्रयायमाणम्। परियायमाणम्। अनीय प्रयाणीयम्। परियाणीयम्। अनि अप्रयाणिः। अपरियाणि। इनि प्रयायिणौ। परियायिणौ। निष्ठादेश प्रहीणः। परिहीणः। प्रहीणवान्। परिहीणवान्। अचः इति किम्? प्रमग्नः। परिभुग्नः। भुजो कौटिल्ये, अस्य निष्ठाप्रत्ययः, ओदितश्च 8-2-45 इति निष्ठानत्वम्, चोः कुः 8-2-30 इति कुत्वे सिद्धं परिभुग्नः इति। कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानं कर्तव्यम्। निर्विण्ण्नो ऽस्मि खलसङ्गेन। निर्विण्णो ऽहमत्र वासेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

656 कृत्यचः। `रषाभ्यां नो णः' इत्यनुवर्तते। `उपसर्गादनोत्परः' इत्यत उपसर्गादिति च। उपसर्गस्थादिति विवक्षितम्। `कृती'त्यनन्तरं `विद्यमानस्ये'ति शेषः। अच इति पञ्चमी। तदाह – उपसर्गस्थादिति। असमानपदत्वादप्राप्तौ वचनम्। `अट्कुप्वाङ्नुम् व्यवायेऽपी'त्यनुवर्तते। तदाह— प्रयाणीयमिति। निर्विण्णस्येति। नस्यण इत्युपसङ्ख्यानमित्यर्थः। अचः परत्वाभावादिति। विदेः क्तप्रत्यये `रदाभ्या'मिति दकारादुत्तरस्य तकारस्य पूर्वदस्य च नत्वे `निर्विन् न ' इति स्थिते नकारस्य अचः परत्वाऽभावात् `कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः। नकारेण व्यवदानाच्च णत्वस्याऽप्राप्तिर्बोध्या। पूर्वस्येति। नस्य णत्वे, ष्टुत्वेन णत्वमित्यर्थः।तथा च द्विणकारकं रूपम्।

तत्त्वबोधिनी

546 कृत्यचः। उपसर्गादित्यनुवर्तते, रषाभ्यामिति च। तत्र तात्स्थ्यात्ताच्छब्द्यमित्याह— उपसर्गस्थादिति। कृत्स्थस्य नस्येति। `अच उत्तरस्ये' त्यस्य कृतो विशेषणत्वे तु प्रयापणमित्यादौ न स्यादिति भावः। प्रमग्न इति। `टुमस्जो शुद्धौ' , `ओदितश्चे'ति निष्ठानत्वं, तस्याऽसिद्धत्वात् `स्को'रिति सलोपः, `चोः कुः'। `रदाभ्या'मिति नत्वं, पूर्वस्य दस्य च।

Satishji's सूत्र-सूचिः

Video

वृत्तिः उपसर्गस्थान्निमित्तात् परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात्। When immediately following a vowel, the नकारः of a कृत् affix gets णकारः as a replacement, when preceded by a उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम्।

उदाहरणम् – प्रयाणीयम् derived from √या (या प्रापणे २. ४४).

या + अनीयर् 3-1-96
= या + अनीय 1-3-3, 1-3-9
= यानीय 6-1-101
“यानीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
“प्र” is the उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + यानीय = प्रयाणीय 8-4-29

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
प्रयाणीय + सुँ 4-1-2
= प्रयाणीय + अम् 7-1-24, 1-3-4
= प्रयाणीयम् 6-1-107