Table of Contents

<<8-4-27 —- 8-4-29>>

8-4-28 उपसर्गाद् बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गस्थान् निमित्तातुत्तरस्य नसो नकारस्य णकारादेशो भवति बहुलम्। प्रणः शूद्रः। प्रणसः। प्रणो राजा। न च भवति। प्र नो मुञ्चतम्। बहुलग्रहणाद् भाषायाम् अपि भवति, प्रणसं मुखम्। उपसर्गाच् च इति नासिकाया नसादेशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

850 `अनोत्परः' इत्यपनीय तत्स्थाने `बहुल'मिति च कृत्वा भाष्यकार आहेत्यर्थः। तथाच फलितं सूत्रमाह–उपसर्गाद्बहुलं। निमित्तादिति। रेपाषकारात्मकादित्यर्थः। `उपसर्गादनोत्परः' इति यथाश्रुते तु `प्र णो नय' इत्यादावव्याप्तिः, `प्र न #ः पूषा' इत्यादावतिव्याप्तिश्चेति भावः। प्रणस इति। प्रगता नासिका यस्येति विग्रहः। `उपसर्गाच्चे'त्यच्, नासिकाया नस्। `उपसर्गाद्बहुल'मिति णत्वमिति भावः।

विगता नासिका यस्येति विग्रहः, प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः। विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते, ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति–कथं तर्हीति। समाधत्ते– विगतयेति। विगता नासिका। प्रादिसमासः। अबहुव्रीहित्वान्न ग्रादेशः। किंतु टायां `पाद्द'न्निति नसादेशे विनसेति तृतीयान्तं रूपम्। `उपलक्षिते'त्यध्याहार्यमिति भावः।

तत्त्वबोधिनी

742 उपसर्गादनोत्परः। अनोत्परः किम्?। प्रनो मुञ्चतमित्यत्र णत्वं मा भूत्। तद्भङ्क्त्वेति। `अनोत्पर'इत्यपनीय बहुलग्रहणं च कृत्वेत्यर्थः। अन्यथा प्रणो नयेत्यादावव्याप्तिः, प्र नः पूषेत्यादौ त्वतिव्याप्तिः प्रसज्येतेति भावः। प्रणसैथि। प्रगता नासिका अस्येति विग्रहः। कथं तर्हीति। ग्रख्ययोरन्यतरेण भाव्यमिति प्रश्नः। नासिकयेति। तथा च विनसेति न प्रथमान्तं, किं तु `पद्दन्न' इति नसादेशे तृतीयान्तमिति भावः।

Satishji's सूत्र-सूचिः

TBD.