Table of Contents

<<8-2-44 —- 8-2-46>>

8-2-45 ओदितश् च

प्रथमावृत्तिः

TBD.

काशिका

ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। ओलस्जी लग्नः। लग्नवान्। ओविजी उद्विग्नः। उद्विग्नवान्। ओप्यायी वृद्धौ आपीनः। आपीनवान्। स्वादय ओदितः। षूङ् सूनः। सूनवान्। दूङ् दूनः। दूनवान्। दीङ् दीनः। दीनवान्। डीङ् डीनः। डीनवान्। धीङ् धीनः। धीनवान्। मीङ् मीनः। मीनवान्। रीङ् रीणः। रीणवान्। लीङ् लीनः। लीनवान्। व्रीङ् व्रीणः। व्रीणवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

823 भुजो भुग्नः. टुओश्वि, उच्छूनः..

बालमनोरमा

828 ओदितश्च। ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः। भुग्न इति। नत्वस्याऽसिद्धत्वाज्जस्य पूर्वं कुत्वम्। ततो नत्वम्। उच्छून इति। उत्पूर्वात् `टु ओ \उfffदिआ' इति धातोः क्तः, यजादित्वात्संप्रसारणम्, पूर्वरूपम्, `\उfffदाईदितः' इति नेट्, `हल' इति दीर्घः, निष्ठानत्वम्। प्रहीण इति। `घुमास्थे'तीत्त्वं, नत्वं, `कृत्यचः' इति णत्वम्। स्वादय इति। `षूङ् प्राणिप्रसवे' इत्याद्या नव धातव ओदित इति दिवादिगणे उक्तमित्यर्थः। सून इति। षूङः क्तः, नत्वं। `श्र्युकः किती'तीण्निषेधः। दून इति। `दूङ् परितापे' अस्मात् क्तः, स्वादित्वेन ओदित्त्वान्नत्वम्। ननु `डीङ् विहायसा गतौ' इत्यस्य उड्डीन इति कथं रूपं, सेट्कत्वादुगन्तत्वाऽभावेन `श्र्युकः किती'ति निषेधस्याऽप्रवृत्तेरित्यत आह- - ओदन्मध्ये डीङः पाठसामथ्र्यान्नेडिति। इटि सति निष्ठातस्य ओदितो डीङः परत्वाऽभावान्नत्वाऽप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः।

तत्त्वबोधिनी

681 भुग्न इति। भुजो कौटिल्ये। नत्वस्याऽसिद्धत्वाज्झलि परतः कुत्वम्। उच्छून इति। \उfffदायतेर्यजादित्वात्संप्रसारणे पूर्वरूपे च `हलः' इति दीर्घः। प्रहीण इति। `घुमास्थे'ति ईत्वम्। सून इति। षूङ् प्राणिप्रसवे। दून इति। दूङ् परितापे। ओदिन्मध्ये इति। यदि डीङ इट् स्यात्तर्हि धातोः परो निष्ठातकारो न संभवतीति नत्वार्थः पाठोऽनर्थकः स्यादिति भावः। न च ओदिन्मध्ये पाठसामथ्र्यादिटा व्यवधाने नत्वं बवेदिति वैपरीत्यं किं न स्यादिति शङ्क्यम्, लक्ष्यानुरोधेन इडभावकल्पनाया एव न्याय्यत्वात्। अन्ये तु सत्यपि इडागमे सवर्णदीर्घे चैकादेशस्य पूर्वान्तत्वेन ग्रहणादिटा व्यववधानं नास्त्येवेतीष्टं सिध्यतीत्याहुः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः ओदितो धातोर्निष्‍ठातस्‍य नः स्‍यात् । A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a verbal root which has ओकार: as a इत्।

Example continued from 7-2-15

वृक् + त
= वृक् + न 8-2-45
= वृक्ण 8-4-2 with the help of the वार्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्। “वृक्ण” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

स्वादय ओदितः। गण-सूत्रम् (in the दिवादि-गण: of the धातुपाठ:)।

Video

वृत्तिः √सू (षूङ् प्राणिप्रसवे ४. २७) इत्यारभ्य √व्री (व्रीङ् वृणोत्यर्थे ४. ३५) इत्यन्ता ओदित:। तत्फलम् ’8-2-45 ओदितश्च’ इति निष्ठानत्वम् । The verbal roots (listed in order in the धातु-पाठ:) beginning with √सू (षूङ् प्राणिप्रसवे ४. २७) and ending with √व्री (व्रीङ् वृणोत्यर्थे ४. ३५) are considered to have ओकार: as a इत्। As a result of this, a नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows one of these verbal roots.

उदाहरणम् – प्रातिपदिकम् “दीन” derived from the verbal root √दी (दीङ् क्षये ४. २९).

दी + क्त 3-2-102, 3-4-72
= दी + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-84.
= दी + न 8-2-45. As per the गण-सूत्रम् ‘स्वादय ओदितः’, the verbal root √दी (दीङ् क्षये ४. २९) is considered to have ओकार: as a इत्। This allows 8-2-45 to apply.
= दीन । “दीन” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.