Table of Contents

<<8-4-15 —- 8-4-17>>

8-4-16 आनि लोट्

प्रथमावृत्तिः

TBD.

काशिका

आनि इत्येतस्य लोडादेशस्य उपसर्गस्थान् निमित्तादुत्तरस्य नकारस्य णकारदेशो भवति। प्रवपाणि। परिवपाणि। प्रयाणि। परियाणि। लोतिति किम्? प्रवपानि मांसानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

422 उपसर्गसिथान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्. प्रभवाणि. (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः). दुःस्थितिः. दुर्भवानि. (अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम्). अन्तर्भवाणि..

बालमनोरमा

78 आनि लोट्। लोडिति आनीति च लुप्तषष्ठीकं पदम्। `रषाभ्यां नो ण' इत्यनुवर्तते, `उपसर्गादसमासेऽपी'त्यत उपसर्गादिति च। तदाह–उपसर्गस्थान्निमित्तादिति। रेफषकारात्मकादित्यर्थः। असमानपदत्वार्थ आरम्भः। `अट्कुप्वाङ्नुम्व्यवायेऽपी'ति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम्। दुरः षत्वेति। षत्वणत्वयोः कर्तव्योर्दुर उपसर्गत्वप्रतिषेध इत्यर्थः। दुःस्थितिरिति। अत्रोपसर्गात्सुनोतीति षत्वं न भवति। दुर्भवानीति। अत्राऽऽनि लोडिति णत्वं न भवति। अन्तःशब्दस्येति। अङ्विधौ किविधौ णत्वे च कर्तव्ये अन्तरित्यस्य उपसर्गत्वमित्यर्थ-। प्रादित्वाऽभावादप्राप्ते वचनम्। अन्तर्धेति। `स्त्रिया'मित्यधकारे धाधातोः `आतश्चोपसर्गे' इत्यङ्। टाप्। अन्तर्धिरिति। `उपसर्गे घोः किः'। अन्तर्भवाणीति। `आनि लो'डिति णत्वम्।

तत्त्वबोधिनी

60 `नि लो' डित्येव वक्तव्ये आनिग्रहणमागमशास्त्रस्याऽनित्यतां ज्ञापयितुम्। तेन `सागरं तर्तुकामस्य' `जप्त्वा स्तोत्र'मित्यादि सिध्यति। लोड्ग्रहणं स्पष्टप्रतिपत्त्यर्थम्। न च प्रकृष्टा वपा येषां तानि प्रवपानि मांसानीत्यत्राप्यनेन नित्यं णत्वं स्यादिति वाच्यम्, उपसर्गग्रहणादर्थवद्ग्रहणाऽच्चास्याऽप्रवृत्तेः। `प्रातिपदिकान्ते'ति वैकल्पिकणत्वं त्विष्वत एव। वक्तव्यः। दुरः षत्वेति। `दुरः परस्य णत्वं नेति केचि'दिति प्राचोक्तं त्वयुक्तम्। एवं हि सिद्धान्ते णत्वं स्यात्, तच्चाकारविरुद्धमिति भावः। शब्दस्याऽङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्। अन्तर्द्धेति। `आतश्चोपसर्गे' इत्यङ्। टाप्। अन्तर्धिरिति। `उपसर्गे घोः किः'। श्रच्छब्दस्याङ्विधावुपसर्गत्वमुपसङ्ख्यायते तत्तु प्रकृतानुपयोगादुपेक्षितम्। भिदादिपाठेन, `प्रज्ञाश्रद्धे'ति निपातनेन वा गतार्थत्वाच्च।

Satishji's सूत्र-सूचिः

307) आनि लोट् 8-4-16

वृत्तिः उपसर्गसिथान्निमित्तात्‍परस्‍य लोडादेशस्‍यानीत्‍यस्‍य नस्‍य णः स्‍यात् । The नकारः of the लोँट् affix आनि gets णकारः as a replacement, when the निमित्तम् (cause – रेफः, षकारः, ऋवर्णः) that brings about the णत्वम् is present in the उपसर्गः।

उदाहरणम् – प्रभवाणि (√भू-धातुः, प्र-उपसर्गः, लोँट्, उत्तम-पुरुषः, एकवचनम्)
प्र + भवानि = प्रभवाणि 8-4-16