Table of Contents

<<8-4-16 —- 8-4-18>>

8-4-17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च

प्रथमावृत्तिः

TBD.

काशिका

नि इत्येतस्य उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति गद नद पत पद घु मा स्याति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धि इत्येतेषु परतः। गद प्रणिगदति। परिणिगदति। नद प्रणिनदति। परिणिनदति। पत प्रणिपतति। परिणिपतति। पद प्रणिपद्यते। परिणिपद्यते। घु प्रणिददाति। परिणिददाति। प्रणिदधाति। परिणिदधाति। माङ् प्रणिमिमीते। परिणिमिमीते। मेङ् प्रणिमयते। परिणिमयते। मा इति मङ्मेङोर् ग्रहणम् इष्यते। स्यति प्रणिष्यति। परिणिष्यति। हन्ति प्रणिहन्ति। परिणिहन्ति। याति प्रणियाति। परिणियाति। वाति प्रणिवाति। परिणिवाति। द्राति प्रणिद्राति। परिणिद्राति। प्साति प्रणिप्साति। परिणिप्साति। वपति प्रणिवपति। परिणिवपति। वहति प्रणिवहति। परिणिवहति। शाम्यति प्रणिशाम्यति। परिणिशाम्यति। चिनोति प्रणिचिनोति। प्रिणिचिनोति। देग्धि प्रणिदेग्धि। परिणिदेग्धि। अड्व्यवाये ऽपि नेर्गदादिषु णत्वम् इष्यते। प्रण्यगदत्। परिण्यगदत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

455 उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु. प्रणिगदति..

बालमनोरमा

129 नेर्गद। `रषाभ्यां नो मः'इत्यनुवर्तते। `उपसर्गादसमासेऽपी'त्यत उपसर्गादिति च। तच् उपसर्गस्थे लाक्षणिकं। तदाह– उपसर्गस्थादिति। श्तिता शपा च निर्देशा यङ्लुग्निवृत्त्यर्था। प्रणिगदतीति। भिन्नपदस्थत्वादप्राप्तौ वचनम्। रदेति। णलि उपधावृद्धिमभिप्रेत्याह– ररादेति। रेदतुरित्यादि। अरादीत् अरदीत्। णदेति। अव्यक्तशब्दः–अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः।

तत्त्वबोधिनी

103 गदादीनां चतुर्णां शपा निर्देशः, स्यत्यादीनामेकादशानां श्तिपा निर्देशश्च यङ्लुङ्गिवृत्त्यर्थः। तेन `प्रनिजागदीति। प्रतिनानदीति। प्रनिसासेति। प्रनिजङ्घनीती'त्यादौ णत्वं न। घुशब्देन घुसंज्ञकादाधादयः षट् गृह्रन्ते। डुधाञ्- प्रणिदधाति। माशब्देन मेङ्भाङोरेव ग्रहणम्। `घुप्रकृतिमा'ङिति पठित्वा भाष्यादौ कतथा व्याख्यानात्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः उपसर्गस्‍थान्निमित्तात्‍परस्‍य नेर्नस्‍य णो गदादिषु परेषु । The letter ‘न्’ of the उपसर्ग: ‘नि’ gets the letter ‘ण्’ as a replacement, when the following two conditions are satisfied -
(i) ‘नि’ is preceded by a उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम् and
(ii) ‘नि’ is followed by the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) or √नद् (णदँ अव्यक्ते शब्दे १. ५६) or √पत् (पतॢँ गतौ १. ९७९) or √पद् (पदँ गतौ ४. ६५) or any verbal root having the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) or √मा (मेङ् प्रणिदाने १. १११६, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७) or √सो (षो अन्तकर्मणि ४. ४२) or √हन् (हनँ हिंसागत्योः २. २) or √या (या प्रापणे २. ४४) or √वा (वा गतिगन्धनयोः २. ४५) or √द्रा (द्रा कुत्सायां गतौ २. ४९) or √प्सा (प्सा भक्षणे २. ५) or √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८) or √वह् (वहँ प्रापणे १. ११५९) or √शम् (शमुँ उपशमे ४. ९८) or √चि (चिञ् चयने ५. ५) or √दिह् (दिहँ उपचये २. ५).

Example continued from 6-4-69

प्र + नि + धा + य
= प्रणिधाय 8-4-17. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘प्रणिधाय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.