Table of Contents

<<8-3-99 —- 8-3-101>>

8-3-100 निसस् तपतावनसेवने

प्रथमावृत्तिः

TBD.

काशिका

निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतो ऽनासेवने ऽर्थे। आसेवनं पुनः पुनः करणम्। निष्तपति सुवर्णम्। सकृदग्निं स्पर्शयति इत्यर्थः। अनासेवने इति किम्? निस्तपति सुवर्णं सुवर्णकारः। पुनः पुनरग्निं स्पर्शयति इत्यर्थः। निष्टप्तं रक्षो निष्टप्ता अरातयः इत्यत्र सदप्यासेवनं न विवक्ष्यते। छान्दसो वा वर्नविकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1009 नक्षत्राद्वा। स्पष्टम्।

तत्त्वबोधिनी

856 एवं `नक्षत्राद्वा'इत्यपि। विष्वक्सेन इति। चत्त्र्वस्याऽसिद्धत्वाद्गकारेण व्यवधानमस्तीति भावः।

Satishji's सूत्र-सूचिः

TBD.