Table of Contents

<<8-3-56 —- 8-3-58>>

8-3-57 इण्कोः

प्रथमावृत्तिः

TBD.

काशिका

इण्कोः इत्येतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः, इणः कवर्गाच् च इत्येवं तद् वेदितव्यम्। वक्ष्यति आदेशप्रत्यययोः 8-3-59। सिषेव। सुष्वाप। अग्निषु। वायुषु। कर्तृषु। हर्तृषु। गीर्षु। धूर्षु। वाक्षु। त्वक्षु। इण्कोः इति किम्? दास्यति। असौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

209 इण्कोः। इत्यधिकृत्येति। उत्तरत्रव विधिष्वनुवर्तत इति भावः। इण् च कुश्चेति समाहारद्वन्द्वः। पुंस्त्वमार्षम्। इतरेतरयोगद्वन्द्वेत्वेकवचनमार्षम्। `इ' णिति परणकारेण प्रत्याहारः। कुः=कवर्गः।

तत्त्वबोधिनी

176 इण्कोः। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। कोः किम् ?। गवाक्षु। गवाङ्षु।

Satishji's सूत्र-सूचिः

TBD.