TBD.
कस्क इत्येवम् आदिसु च विसर्जनीयस्य सकारः वा यथायोगमादेशो भवति कुप्वोः परतः। कस्कः। कौतस्कुतः। कुत आगतः इत्यण्। भ्रातुष्पुत्रः। शुनस्कर्णः। सद्यस्कालः। सद्यस्क्रीः। क्रीणातेरयं सम्पदादित्वात् क्विप् प्रत्ययः, तत्र भवः क्रतुः साद्यस्क्रः। कांस्कान्, कानाम्रेडिते 8-3-12 इति रुत्वमत्र सर्पिष्कुण्डिका, धनुष्कपालम्, वर्हिष्पूलम्, यजुष्पात्रम् इत्येषां पाठः उत्तरपदस्थस्य अपि षत्वं यथा स्यादिति। परमस्र्पिःफलम् इत्येवम् आदि प्रत्युदाहरणातिति पारायणिका आहुः। भाष्ये वृत्तौ च नित्यं समासे ऽनुत्तरपदस्थस्य 8-3-45 इत्यत्र प्ररमसर्पिःकुण्दिका इत्येतदेव प्रत्युदाहरणम्। अयस्काण्डः। मेदस्पिण्डः। अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्यः।
TBD.
984 एष्विण उत्तरस्य विसर्गस्य षोऽन्यस्य तु सः. इति सः. व्यूढोरस्कः..
143 कस्कादिषु च। `इण इत्यनुवर्तते। तच्च पञ्चम्यन्तम्। `विसर्जनीयस्य स' इत्यतो विसर्जनीयस्येत्यनुवर्तते। कस्कादिष्विति विषयसप्तमी। कस्कादिगणे इणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः। सोऽपदादावित्यतः स इति प्रथमान्तमनुवर्तते। कस्कादिष्वनिणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः। तदेवं वाक्यद्वयं सम्पद्यते। कस्कादिषु तथाविधानामेव कृतषत्वसत्वानां निर्देशादयं विषयविभागः। ><क><पयोरपवाद इति। ><क><पयोरित्युपलक्षणं कुप्वोरिति विहितविसर्गस्यापि। अन्यस्य तु स इति। प्रकृते विसर्गस्य इणः परत्वाऽभावान्न षत्वं, किन्तु सत्वमित्यर्थः। काँस्कानिति। अनुनासिकपक्षे रूपम्। कांस्कानिति। अनुस्वारपक्षे रूपम्। अथ कस्कादिगणं पठति–कस्क इत्यादिना। वाप्सायां द्वित्वे पूर्वखण्डेऽकारात्परस्य विसर्गस्य सत्वम्। `कः कोऽत्र भोः' इति प्रयोगे तु संहिताविरहात्सत्वाऽभावः, `कस्कादिषु चे'त्यस्य `तयोय्र्यावाचि संहिताया'मिति संहिताधिकारस्थात्वादित्याहुः। कोतस्कुत इति। वीप्सायां द्विर्वचने कुतः-कुत आगत इत्यर्थे तत आगत इत्यण्। `अव्ययानां भमात्रे टिलोपः'। अत व निपातना`दव्ययात्यवि'ति न। सर्पिष्कुण्डिकेति। अत्र इणः परत्वात्षत्वम्। एवं धुनिष्कपालं, चतुष्कपालमित्यत्रापि। ननु कस्कादिगणे कांस्कानित्यत्र सत्वसिद्धेः संपुङ्कानामित्यत्र कान्ग्रहणं न कर्तव्यमिति भावः।
116 कस्कादिषु च। अत्र `सौपदादौ' इत्यतः स इति, `इणः षः' इति सूत्रं चानुवर्तते, तदाह-एष्विण उत्तकस्येत्यादि। कौतस्कुत इति। कुतः कुत आगत इत्यर्थे अव्ययात्त्यपि प्राप्ते गणपाठसामथ्र्यादणित्याहुः। `अव्ययानां भमात्रे' इति वक्ष्यमाणेनाऽत्र टिलोपः। सर्पिंष्कुण्टिकेति। `नित्यं समासे' इत्येव सिद्धे इह पाठस्य प्रयोजनमसमासे व्यपेक्षाविरहेऽपि षत्वार्थमित्यादि वक्ष्यति।
TBD.