Table of Contents

<<8-3-44 —- 8-3-46>>

8-3-45 नित्यं समासे ऽनुत्तरपदस्थस्य

प्रथमावृत्तिः

TBD.

काशिका

इसुसोः इति वर्तते। समासविषये इसुसोः विसर्जनीयसुअ अनुत्तरपदस्थस्य नित्यं ष्त्वं भवति कुप्वोः परतः। सर्पिष्कुण्डिका। धनुष्कपालम्। सर्पिष्पानम्। धनुष्फलम्। अनुत्तरपदस्थस्य इति किम्? परमसर्पिःकुण्डिका। परमधनुःकपालम्। पूर्वसूत्रेण विकल्पो ऽप्यत्र न भवति। एतदेव अनुत्तरपदस्थस्य इति वचनं ज्ञापकम् इसुसोः प्रत्ययग्रहणे यस्मात् स विहितः तदादेः इत्ययं नियमो न भवति। तेन वाक्ये ऽपि परमसर्पिष्करोति, परमसर्पिः करोति, इसुसोः सामर्थ्ये 8-3-44 इत्येतद् भवति। व्यपेक्षा च तत्र सामर्थ्यमाश्रितम् इति समासे न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.