Table of Contents

<<8-2-85 —- 8-2-87>>

8-2-86 गुरोरनृतो ऽनन्त्यस्य अप्येकैकस्य प्राचाम्

प्रथमावृत्तिः

TBD.

काशिका

प्रत्यभिवादे ऽशूद्रे 8-2-83 इत्येवम् आदिना यः प्लुतो विहितः, तस्य एव अयं स्थानिविशेषः उच्यते। ऋकारवर्जितस्य गुरोः अनन्त्यस्य, अपिशब्दादन्त्यस्य अपि टेः एकैकस्य सम्बोधने वर्तमानस्य प्लुतो भवति प्राचाम् आचार्याणां मतेन। देस्3वदत्त, देवद3त्त, देवदत्त3। य3ज्ञदत्त, यज्ञद3त्त, यज्ञदत्त3। गुरोः इति किम्? वकारात् परस्य मा भूत्। अनृतः इति किम्? कृष्णमि3त्र, कृष्णमित्र3। एकैकग्रहणं पर्यायार्थम्। प्राचाम् इति ग्रहणं विकल्पार्थम्। आयुष्मानेधि देवदत्त। तदनेन यदेतदुच्यते, सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्तव्यः इति तदुपपन्नं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

365 अहन्नित्यस्य रुः पदान्ते. अहोभ्याम्.. दण्डि. दण्डिनी. दण्डीनि. दण्डिना. दण्डिभ्याम्.. सुपथि. टेर्लोपः. सुपथी. सुपन्थानि.. ऊर्क, ऊर्ग. ऊर्जी. ऊन्र्जि. नरजानां संयोगः. तत्. ते. तानि.. यत्. ये. यानि.. एतत्. एते. एतानि.. गवाक्, गवाग्. गोची. गवाञ्चि. पुनस्तद्वत्. गोचा. गवाग्भ्याम्.. शकृत्. शकृती. शकृन्ति.. ददत्..

बालमनोरमा

98 गुरोरनृतः। `दूराद्धूते चे'त्यनुवर्तते। `वाक्यस्य टेः प्लुत उदात्त' इत्यधिकृतं। दूरात्सम्बोधने यद्वाक्यं तत्र सम्बोध्यमानवाचकं यत्पदं तदवयवस्य ऋकारभिन्नस्याऽनन्त्यस्य गुरोः प्लुतः स्यात्, अन्त्यस्य तु गुरोरगुरोश्च स्यादित्यर्थः। टेरपिना समुच्चयात्। तदाह–दूरादित्यादिना। दे3वदत्तेत्यादिषु सर्वत्र `एही'ति शब्दः प्राग्ध्याहर्तव्यः। अन्यथा `एकतिङ् वाक्य'मिति वाक्यत्वानुपपत्तेः। पर्यायार्थमिति। अन्यथा सर्वेषां गुरूणां युगपत् प्लुतः स्यादिति भावः। इह प्राचामिति। `गुरोरनृतोऽनन्त्यस्याप्येकैकस्ये'त्येकं वाक्यं, `प्राचा'मित्यन्यत्। तत्र `प्लुत' इत्येवानुवर्तते। प्राचां मते प्लुतः स्यान्नान्यमते इति फलति। ततः किमित्यत आह-तेनेति। एवं च `सर्वः प्लुतः साहसमनिच्छता विभाषा वक्तव्य' इति वार्तिकं न कर्तव्यमिति भावः। प्लुतशास्त्रत्यागात्मकं साहसमनिच्छतेत्यर्थः। प्लुतशास्त्रेषु श्रद्धाजाड\उfffद्ं विहायेति यावत्। अप्लुतवत्। `किमिदमुपस्थितं नाम ? अनार्षमितिकरण'मिति भाष्यम्। अवैदिक इतिशब्द इत्यर्थः। `प्लुत' इत्यध्याहार्यम्। अवैदिके इतिशब्दे परे प्लुतोऽप्लुतवत्स्यादिति फलति।

तत्त्वबोधिनी

78 गुरोरनृतः। अनन्त्यस्याप्रीति। अत्र वदन्ति-यद्यन्त्यस्य गुरोः प्लुतार्थोऽपिशब्दः इति व्याख्यायेत तर्हि गुरुस्थानिकप्लुतानामेव पर्यायता स्यात्तथाच्च `दूराद्धूते' इति लक्षणान्तरेण लघोष्टेः स्थाने विहितेन प्लुतेन सह युगपत्प्रयोगः प्रसज्येत। तस्मादपिशब्दो गुरोरगुरोश्च टेः प्लुतार्थ इत्येव व्याख्यातव्यं, `टे'रिति प्रकृतत्वादिति। देवदत्तेति। वाक्यत्वसंपत्तये अस्यादिरेहीति शब्दो बोध्यः। एवमग्रेऽपि। सर्वः प्लुतो विकल्प्यत इति। एतेन `द्वैपायनो विशकातर आजुहाव पुत्रेति' इति भागवतं व्याख्यातम्। `प्लुतस्य वैकल्पिकत्वादार्षः प्रयोगः' इति श्रीधराचार्योक्तिस्तु भादत्र्तव्या। विस्तरस्त्वत्र मनोरमायामनुसन्धेयः।

Satishji's सूत्र-सूचिः

TBD.