TBD.
अभिवादये देवदत्तो ऽहम्, भो आयुष्मानेधि देवदत्त3। पदाधिकारो ऽनुवर्तते एव। वाक्यग्रहणम् अनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम्। टिग्रहणं व्यञ्जनान्त्यस्य अपि टेरचः प्लुतो यथा स्यात्, अग्निचि3तिति। प्रत्यभिवादे ऽशूद्रे
प्रत्यभिवादो नाम यदभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते, तत्र अशूद्रविषये यद् वाक्यं वर्तते तस्य टेः प्लुत उदात्तो भवति। अभिवादये देवदत्तो ऽहम्, भो आयुष्मानेधि देवदत्त3। अशूद्रे इति किम्? अभिवादये तुषजको ऽहन्, भो अयुष्मानेधि तुषजक। स्त्रियाम् अपि प्रतिषेधो वक्तव्यः। अभिवादये गार्ग्यहम्, भो आयुष्मती भव गार्गि। असूयके ऽपि केचित् प्रतिषेधम् इच्छन्ति, अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालिन्। यावच् च तस्य असूयकत्वं न ज्ञायते तावदेव प्रत्यभिवादवाक्यम्। तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवादः एव न अस्ति, कुतः प्लुतः। तथा ह्युक्तम् असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादनम् अर्हसि, भिद्यस्व वृषल स्थालिनिति। अभिवादनवाक्ये यत् सङ्कीर्तितं नाम गोत्रं वा, तद् यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुतिः इष्यते। इह न भवति, देवदत्त कुशल्यसि, देवदत्त आयुष्मानेधि इति। भो राजन्यविशाः वेति वक्तव्यम्। भो अभिवादये देवदत्तो ऽहम्, आयुष्मानेधि देवदत्त भोः3, आयुष्मनेधि देवदत्त भोः। राजन्य अभिवादये इन्द्रवर्मा अहं भोः, आयुष्मानेधि इन्द्रवर्म3न्, आयुष्मानेधि इन्द्रवर्मन्। विश् अभिवादये इन्द्रपालितो ऽहम् भोः, आयुस्मानेधि इन्द्रपालित3, आयुष्मानेधि इन्द्रपालित।
TBD.
–
95 प्रत्यभिवादेऽशूद्रे। `वाक्यस्य टेःप्लुत उदात्त' इत्यधिकृतम्। अशूद्र इति च्छेदः। न शूद्रः अशूद्रः=द्विजातिः। तद्विषयः प्रत्यभिवादः=विधिवदभिवादयमानं प्रति विधिवदाशीर्वचनम्। भावे घञ्। अस्मिन् प्रत्यभिवादे विषये यद्वाक्यं तस्य टेः प्लुतः स्यात्स चोदात्त इत्यर्थः। अभिवादविधिमाह–आपस्तम्बः-`दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राआहृणोऽभिवादयीत, उरःसमं राजन्यः, मध्यसमं वैश्यः, नीचैः शूद्रः। `प्राञ्जलि' इति। `तिष्ठन्ताप्रातरभिवादमभिवादयीतासावहं भोः' इति च। `असा' विति स्वनामनिर्देशोऽभिमतः। `देवदत्तोऽहं भो' इति ब्राउवन् अभिवादम्=आशीर्वचनम्। अभिवदायीत=वक्तव्यत्वेन विज्ञापयेत्। ततश्च यथा वर्णं दक्षिणं वाहुं प्रसार्य `अभिवादये देवदत्तोऽहं भोः' इति ब्राऊयादित्यर्थः। अयमभिवादनप्रकारः। प्रत्यभिवादनप्रकारस्तु मनुना दर्शितः-आयुष्मान् भव सौम्येति विप्रो वाच्योऽभिवादने। अकांरश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥' इति। अत्र नाम्नो।ञन्ते इति वचनादायुष्मान् भव सौम्येत्यनन्तरमबिवादयमानस्य नाम संबुद्ध्यन्तं प्रयोक्तव्यमिति स्मृत्यन्तरसिद्धमनुगृहीतं भवति। अस्य नाम्नोऽन्ते अक#आरश्चा वाच्यः=प्रयोज्यः। तस्मादकारात्पूर्वाक्षरः=पूर्वोऽच् प्लुतः प्रयोक्तव्य इत्यर्थः। एवंच `आयुष्मान् भव सौम्य देवदत्त3 अ' इति प्रत्यभिवादवाक्यं संपन्नमिति स्थितिः। `अभिवादये देवदत्तोऽहट'मिति अभिवादवाक्यप्रदर्शनम्। भो इत्यस्याप्युपलक्षणम्। आयुष्मान् भव देवदत्त 3 इति प्रत्यभिवादवाक्यप्रदर्शनम्। `अभिवादये' इत्यस्य अबिवादमाशीर्वचनं वक्तव्यत्वेन विज्ञापयामीत्यर्थः। भवेत्यनन्तरं सौम्यशब्दस्य देवदत्त इत्यनन्तरमकारस्याप्युपलक्षणम्। अत्र देवदत्तशब्दे तकारादकारस्य प्लुतः। आयुष्मत्त्वस्य विधेयत्वात्संबोधनविभक्त्यभावः। अत्र प्रत्यभिवादवाक्ये शर्मान्तं ब्राआहृणस्येत्यादि न भवति, एचोऽप्रगृह्रस्येति सूत्रे शर्मादिशब्दं विना केवलस्य नाम्नो भाष्ये उदाहरणात्, उक्तमन्वादिस्मृतिविरोधाच्च। `अशूद्र इति किम् ?`कुशल्यसि तुषजक' इति भाष्यम्। एवंच शूद्रविषये आयुष्मान् भवेति न प्रयोक्तव्यमिति गम्यते। `अशूद्रस्त्र्यसूयकेष्विति वक्तव्य'मिति वार्तिकम्। शूद्रविषय एव प्लुतप्रतिषेधो न भवति, किंतु शूद्रवत्स्त्रीविषये असूयकविषयेऽपि प्लुतप्रतिषेधो भवतीति वक्तव्यमित्यर्थः। स्त्रीविषये वार्तिकं विभज्यार्थतः संगृह्णाति–स्त्रियां नेति। स्त्रीविषयकप्रत्यभिवादवाक्ये उक्तो विधिर्न भवतीत्यर्थः। `अभिवादये गाग्र्यह'मिति अभिवादनवाक्ययोर्नाम्नो गोत्रस्य च विकल्पः। तदाह-नाम गोत्रं वेति। अत्र नामशब्देन `द्वादशेऽहनि पिता नाम कुर्या'दिति विहितं नामैव गृह्रते। अत एव `आयुष्मान्भव दण्डि'न्नित्यादौ प्लुतो नेति भाष्ये स्पष्टम्। `नाम गोत्रं वे'ति परिगणनस्य प्रयोजमाह–नेहेति। आयुष्मानेधीति। अस्तेस्सिप् हिः। ध्वसोरित्येत्वं, हेर्धिः। `श्नसोरल्लोपः'। अत्र धकारादिकारस्य न प्लुतः, अनामत्वादगोत्रत्वाच्च।
स्यादिति वक्तव्यमित्यर्थः। भोस्शब्दस्याऽप्राप्ते इतरयोस्तु नामत्वात्प्राप्ते विभाषेयम्। तत्र भोस्?शब्दे यथा-आयुष्मनेधि बोः 3। देवदत्त भोः' इति भाष्यम्। अत #एव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तरं भोश्शब्दस्य भवशब्देन एधिशब्दस्य च प्रयोगाविकल्पो गम्यते। राजन्ते यथा-आयुष्मानेधि इन्द्रवर्म3न्, इन्द्रवर्मन्। वैश्ये यथा-आयुष्मनेधि इन्द्रपालित3, इन्द्रपालित इति भाष्यम्। अत एव भाष्यात् प्रत्यभिवादवाक्ये शर्मान्तं ब्राआहृणस्य वर्मान्तं क्षत्रियस्य पालितान्तं वैश्यस्येति विधयोऽपि प्रवर्तन्त इति गम्यते। उक्तभाष्यमन्वादिस्मृतिविरोधाद्विकल्पः। अत्र भाष्ये अपर आहेत्युक्त्या प्रत्यभिवादे सर्वस्यैव नाम्नो भोश्शब्द आदेशो वक्तव्य इति पठित्वा आयुष्मानेधि भो इत्येतावदेव सर्वत्र प्रत्यभिवादवाक्यमित्युक्तम्।
76 प्रत्यभिवादे। इह `प्रत्यभिवाद'शब्देन आशीर्वचनमुच्यते। अशूद्रे किम् ?, अभिवादये तुषजकोऽहम्भोः। आयुष्मानेधि तुषजक। आयुष्मानेधीति। अस्तेः सेर्हिः। `ध्वसो'रिति एत्वम्। `हुझल्भ्यो हेर्धिः'। `श्नसोरल्लोपः'। नाम गोत्रं वेति। गोत्रस्योदाहरणम्-`अभिवादये गाग्र्योऽहम्भोः, आयुष्मानेधि गाग्र्या' इत्यूह्रम्।
TBD.