TBD.
हैहेप्रयोगे यद् वाक्यं वर्तते तत्र हैहयोः एव प्लुतो भवति। है3 देवदत्त। हे3 देवदत्त। देवदत्त है3। देवदत्त हे3। पुनर् हैहयोर् ग्रहणम् अन्त्ययोरपि यथा स्यात्।
TBD.
–
97 हैहेप्रयोगे। है हे इत्यव्यये सम्बोधनद्योतके। तयोः प्रयोगे हैहयोः प्लुतः स्यादित्यर्थः। पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमिति व्याचष्टे–हैहयोरेवेति। हैहयोरेवेति नियमार्थमिति बावः। पाहि है3 राम, पाहि हे3 रामेत्यत्र हैहयोरेव प्लुतो न तु गुररोनृत इत्यन्त्यस्यापीत्येतद्धैहयोरित्यनेन लभ्यत इति यावत्। प्रयोगग्रहणाभावे वाक्यस्य टेरित्यधिकाराद्राम है3 राम हे3 इत्यत्रैव स्यादतः `प्रयोग'ग्रहणम्। ततश्चाऽनन्त्ययोरपि तयोः प्लुतो भवति।
–
TBD.