Table of Contents

<<8-2-64 —- 8-2-66>>

8-2-65 म्वोश् च

प्रथमावृत्तिः

TBD.

काशिका

मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादेशो भवति। अगन्म तमसः पारम्। अगन्व। गमेर्लङि बहुलं छन्दसि इति शपो लुक्। जगन्वान्। विभाषा गमहनजनविदविशाम् 7-2-68 इति क्वसौ इडागमस्य अभावः। अपदान्तार्थः आरम्भः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

833 मान्तस्य धातोर्नत्वं म्वोः परतः. जगन्वान्..

बालमनोरमा

तत्त्वबोधिनी

124 कमु कान्तौ। अस्य णिङभावे `उदितो वे'ति क्त्वायामिड्विकल्पः। कमित्वा। कान्त्वा। निष्ठायां तु `यस्य विभाषे'ति निषेधात्कान्तः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः मान्‍तस्‍य धातोर्नत्‍वं म्‍वोः परतः । When followed by a मकार: or a वकार:, the ending मकार: of a verbal root is replaced by a नकार:।

Example continued from 7-2-68

जगम् + वस्
= जगन् + वस् 8-2-65
= जगन्वस् । “जगन्वस्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The प्रातिपदिकम् “जग्मिवस्”/”जगन्वस्” is declined like “विद्वस्”। पुंलिङ्गे प्रथमा-एकवचनम् is जग्मिवान्/जगन्वान्।
जग्मिवस्/जगन्वस् + सुँ 4-1-2
= जग्मिवस्/जगन्वस् + स् 1-3-2, 1-3-9
= जग्मिवन्स्/जगन्वन्स् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3, 1-3-9
= जग्मिवान्स्/जगन्वान्स् + स् 6-4-10
= जग्मिवान्स्/जगन्वान्स् 6-1-68
= जग्मिवान्/जगन्वान् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.