Table of Contents

<<8-2-63 —- 8-2-65>>

8-2-64 मो नो धातोः

प्रथमावृत्तिः

TBD.

काशिका

मकारन्तस्य धातोः पदस्य नकारादेशो भवति। प्रशान् प्रतान्। प्रदान्। शमितमिदमादीनां क्विप्, अनुनासिकस्य क्विझलोः क्ङिति 6-4-15 इति दीर्घत्वम्। नत्वस्य असिद्धत्वान् नलोपो न भवति। मः इति किम्? भित्। छित्। धातोः इति किम्? इदम्। किम्। पदस्य इत्येव, प्रतामौ। प्रतामः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

272 धातोर्मस्य नः पदान्ते. प्रशान्..

बालमनोरमा

अथ मकारान्ताः। अथ प्रपूर्वात्शमुधातोः क्विपि `अनुनासिकस्य क्वझलोः क्ङिति' इति दीर्घे सति निष्पन्ने प्रशाम्शब्दो विशेषमाह–मो नो धातोः। `म' इति षष्ठ\उfffद्न्तं `धातो'रित्यस्य विशेषणं, ततस्तदन्तविधिः। पदस्येत्यधिकृतं, `स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते। तदाह-मान्तस्येत्यादिना। `अलो।ञन्त्यस्ये'ति मकारस्य भवति। तत्र सोर्हल्ङ्यादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्च `न लोपः प्रातिपदिकान्तस्ये'ति नलोपमाशङ्क्याह- -नत्वस्येति। प्रशानिति। स्वरादिपाठेऽप्यस्य नाव्ययत्वं, सत्त्ववाचित्वात्। असत्त्ववाचित्वे तु स्वरादिपाठाद्वययत्वमेवेति भावः। प्रशान्भ्यामिति। भ्यामादो हलि `स्वादिष्वसर्वनामस्थाने' इति पदत्वान्नत्वमिति भावः। इत्यादीति। प्रशान्भिः। प्रशामे। प्रशान्भ्यः। प्रशामः। प्रशामः। प्रशामोः। प्रशामाम्। प्रशामि प्रशान्त्सु-प्रशान्सु। `नश्चेति'धृड्विकल्पः। अथ कायतेर्ङिमिरिति निष्पन्नः किम्?शब्दः प्रष्टव्ये वर्तते।

तत्त्वबोधिनी

301 प्रशानिति। `शम उपशमे'क्विप्। `अनुनासिकस्य क्वी'ति दीर्घः।

Satishji's सूत्र-सूचिः

TBD.