Table of Contents

<<8-2-5 —- 8-2-7>>

8-2-6 स्वरितो वा ऽनुदात्ते पदादौ

प्रथमावृत्तिः

TBD.

काशिका

अनुदात्ते पदादौ उदात्तेन सह य एकादेशः स स्वरितो वा भवति उदात्तो वा। सु उत्थितः सूत्थितः, सूत्थितः। वि ईक्षते वीक्षते, वीक्षते। वसुकः असि वसुको ऽसि, वसुको ऽसि। सूत्थितः इति सुशब्दः सुः पूजायाम् 1-4-94 इति कर्मप्रवचनीयः, तस्य प्रादित्वात् समासे सति अव्ययपूर्वप्रकृतिस्वरत्वेन आद्युदात्तः, शेषम् अनुदात्तम् इति च अनुदात्ते पदादौ एकादेशो भवति। वीक्षते, वसुको ऽसि इत्यत्र अपि तिङ्ङतिङः 8-1-28 इति निघाते कृते ऽनुदात्ते पदादावेकादेशः। स्वरितग्रहणम् विस्पष्टार्थम्। उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यति इति। अनुदात्ते इति किम्? देवदत्तो ऽत्र। पदादौ इति किम्? वृक्षौ। वृक्षाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.