Table of Contents

<<1-4-93 —- 1-4-95>>

1-4-94 सुः पूजायाम्

प्रथमावृत्तिः

TBD.

काशिका

सुशब्दः पूजायाम् अर्थे कर्मप्रवचनीयसंज्ञो भवति। सु सिक्तं भवता। सु स्तुतं भवता। धात्वर्थः स्तूयते। उपसर्गसंज्ञाऽश्रयं षत्वं न भवति। पूजायाम् इति किम्? सुषिक्तं किं तवात्र।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

547 सुः पूजायाम्। `कर्मप्रवचनीय' इति शेषः। सु सिक्तं सु स्तुतमिति। अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह–अनुपसर्गत्वान्न ष इति। `उपसर्गात्सुनोतीत्यनेने'ति शेषः। पूजायां किमिति। सुना पूजाया नित्यं प्रतीतेः प्रश्नः। सुषिक्तं किं [स्यात्]तवात्रेति। त्वया सम्यक् सिक्तं, किन्त्वत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः। क्षेपोऽयमिति। निन्दाऽत्र गम्यत इत्यर्थः। सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्मप्रवचनीयत्वम्। तदभावात् `उपसर्गात्सुनोती'ति षत्वमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.