Table of Contents

<<8-2-53 —- 8-2-55>>

8-2-54 प्रस्त्यो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

प्रपूर्वात् स्त्यायतेः उत्तरस्य निष्थातकारस्य अन्यतरस्यां मकारादेशो भवति। प्रस्तीमः। प्रस्तीमवान्। प्रस्तीतः। प्रस्तीतवान्। यदा मत्वं न अस्ति, तदा संयोगादेरातो धातोर् यण्वतः 8-2-43 इत्यस्य पूर्वत्र असिद्धत्वात् संप्रसारणं प्रथमं क्रियते, तत्र कृते निमित्तव्याघातान् नत्वं न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

841 प्रस्त्योऽन्यतरस्याम्। `प्रस्त्य' इति पञ्चमी। प्रपूर्वात्स्यैधातोरित्यर्थः। `निष्ठातस्य म' इति शेषः। प्रस्तीम इति। सङ्गीभूत इत्यर्थः।

तत्त्वबोधिनी

689 प्रस्तीमः प्रस्तीत इति। स्त्यै ष्ठै शब्दसङ्घातयोः। आत्वे कृते `संयोगादे'रित्यस्याऽसिद्धत्वात्पूर्वं संप्रसारणे पूर्वरूपे कृते `हलः' इति दीर्घः, पश्चाद्यण्वत्त्वादन्तत्वयोर्विरहान्न नत्वम्। `संस्त्यान' इत्यत्र तु भवत्येव।

Satishji's सूत्र-सूचिः

TBD.