Table of Contents

<<8-2-42 —- 8-2-44>>

8-2-43 संयोगादेरातो धातोर् यण्वतः

प्रथमावृत्तिः

TBD.

काशिका

संयोगादिः यो धातुराकारान्तो यण्वान्, तस्मादुत्तरस्य निष्थातकारस्य नकारदेशो भवति। प्रदाणः। प्रदाणवान्। म्लानः। म्लानवान्। संयोगादेः इति किम्? यातः। यातवान्। आतः इति किम्? च्युतः। च्युतवान्। ल्पुतः। प्लुतवान्। धातोः इति किम्? निर्यातः। निर्वातः। यण्वतः इति किम्? स्नातः। स्नातवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

820 निष्ठातस्य नः स्यात्. द्राणः. ग्लानः..

बालमनोरमा

827 संयोगादेः। निष्टातस्य नः स्यादति। शेषपूरणमिदम्। द्राण इति। `द्रा कुत्सायां गतौ'अस्मात् क्तः, तनत्वम्, णत्वम्. ग्लान इति। `ग्लै हर्षक्षये' `आदेचः' इत्यात्त्वे नत्वम्। ल्वादिभ्य एकविंशतेरिति। क्र्यादिषु प्वादयो द्वाविंशति, तेषु आद्यं पूञं विहाय ल्वादिभ्य एकविंशतेरित्यर्थः। ज्येति। धातुसूचनम्। ग्रहिज्येति। संप्रसारणसूचनम्। जीन इति। ज्या- त इति स्थिते `संयोगादे'रिति निष्टानत्वस्याऽसिद्धत्वात्ततः प्रागेव संप्रसारणे पूर्वरूपे च कृते आतः परत्वाऽभावात् `संयोगादेरातः' इति नत्वस्याऽप्राप्तावनेन नत्वम्। दुग्वार्दीर्घश्चेति। वार्तिकमिदम्। दु गु आभ्यां परस्य निष्ठातस्य नत्वं प्रकृतेर्दीर्घश्च इत्यर्थः। `मृदुतया दुतया' इति माघकाव्ये दुतशब्दं साधयितुमाह- - टु दु उपतापे इत्यादि। गून इति। गुधातोः क्ते दीर्घः। पूञो विनाशे इति। वार्तिकमिदम्। विनाशार्थात् पूञः परस्य निष्ठातस्य नत्वमित्यर्थः। सिनोतेरिति। वार्तिकमिदम्। कर्मैव कर्ता कर्मकर्ता, ग्रासः कर्म कर्ता यस्यस ग्रासकर्मकर्तृकः, तस्मात् `षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः निष्‍ठातस्‍य नः स्‍यात् । A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a verbal root which satisfies all the following conditions -
(i) the verbal root begins with a संयोग: (conjunct consonant – ref. 1-1-7)
(ii) the verbal root ends in a आकार:
(iii) the verbal root contains a यण् letter (‘य्’, ‘व्’, ‘र्’, ‘ल्’)।

उदाहरणम् – प्रातिपदिकम् “ग्लान” derived from the verbal root √ग्लै (ग्लै हर्षक्षये १. १०५१).

ग्ला + क्त 6-1-45, 3-2-102
= ग्ला + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= ग्ला + न 8-2-43
= ग्लान । “ग्लान” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.