TBD.
फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते, न चेदुपसर्गादुत्तरा भवन्ति। फुल्लः इति ञिफला विशरणे इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य लकारो निपात्यते। उत्वमिडभावश्च सिद्ध एव। क्तवत्वन्तस्य अप्येतल् लत्वम् इष्यते, फुल्लः, फुल्लवानिति। क्षीबकृशोल्लाधाः इति क्षीबिकृशिभ्याम् उत्पूर्वाच् च लाघेः क्त प्रत्ययस्य तलोपः इडभावश्च निपात्यते। कृते व इटि इच्छब्दलोपः। क्षीबः। कृशः। उल्लाघः। अनुपसर्गातिति किम्? प्रफुल्ताः सुमनसः। प्रक्षीबितः। प्रकृशितः। प्रोल्लाधितः। लाघेरुदो ऽन्यः उपसर्ग प्रतिषिध्यते। उत्फुल्लसम्फुल्लयोरिति वक्तव्यम्। उत्फुल्लः। सम्फुल्लः। परिकृशः इत्यत्र यः परिशब्दः स क्रियान्तरयोगात् कृशिं प्रत्यनुपसर्ग एव, परिगतः कृशः परिकृशः इति।
TBD.
–
842 अनुपसर्गात्। एते निपात्यन्ते, उपसर्गात्परा न चेदित्यर्थः। लत्वमिति। `आदितश्चे'ति इडभावः, `ति चे'त्युत्त्वं च सिद्धमिति भावः। `फल निष्पत्तौ' इत्यस्य तु नाऽत्र ग्रहणम्, इडभावस्याऽपि निपात्यत्वापत्तेः। ननु क्तवतुप्रत्यये फुल्लवानिति कथं, क्तवतुप्रत्यये क्तस्याऽनर्थकत्वेन फुल्लशब्देनाऽग्रहणादित्यत आह– क्तवत्वेकदेशस्यापीति। क्षीबादिष्विति। क्षीबकृशोल्लाघेष्वित्यर्थः। क्तप्रत्ययस्यैवेति। नतु क्तवत्वेकदेशस्यापीत्यर्थः। अनर्थकत्वादित भावः। तस्येति। तलोपस्येत्यर्थः। क्षीबो मत्त इति। क्षीबेः क्तः, तलोपः, इडभावश्च। अत्र मत्तादिरेवार्थः, निपातनबलात्। अनुपसर्गात्किमिति। अत्र `प्रफुल्त' इति प्रत्युदाहरणं विवक्षंस्तत्र विशेषमाह–
690 क्षीबादिष्विति। क्षीबृ मदे,कृश तनुत्वे, लाघृशक्तावुत्पूर्वः, एभ्यः क्तः। ननु फुल्ल विकसन इत्यस्मादुल्लाघेश्च पचाद्यचि इतराभ्यामिगुपधलक्षणे कप्रत्यये च फुल्लादयः सिध्यन्ति त\उfffद्त्क सूत्रेणेत्यत आह– सूत्रं त्विति।
TBD.