Table of Contents

<<8-2-26 —- 8-2-28>>

8-2-27 ह्रस्वादङ्गात्

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वान्तादङ्गादुत्तरस्य लोपो भवति झलि परतः। अकृत। अकृथाः। अहृत। अहृथाः। ह्रस्वातिति किम्? अच्योष्ट। अप्लोष्ट। अङ्गातिति किम्? अलाविष्टाम्। अलाविषुः। झलि इत्येव, अकृषाताम्। अकृषत। अयम् अपि सिच एव लोपः, तेन इह न भवति, द्विष्टराम्, द्विष्टमाम् इति। सुजन्ताद् द्विशब्दात् तरप्तमपौ, अद्रव्यप्रकर्षे आतिशयिकः आम् प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

547 सिचो लोपो झलि. अभृत. अभृषाताम्. अभरिष्यत्, अभरिष्यत.. हृञ् हरणे.. 3.. हरति, हरते. जहार. जहर्थ. जह्रिव. जह्रिम. जह्रे. जह्रिषे. हर्तासि, हर्तासे. हरिष्यति, हरिष्यते. हरतु, हरताम्. अहरत्, अहरत. हरेत्, हरेत. ह्रियात्, हृषीष्ट. हृषीयास्ताम्. अहार्षीत्, अहृत. अहरिष्यत्, अहरिष्यत.. धृञ् धारणे.. 4.. धरति, धरते.. णीञ् प्रापणे.. 5.. नयति, नयते.. डुपचष् पाके.. 6.. पचति, पचते. पपाच. पेचिथ, पपक्थ. पेचे. पक्तासि, पक्तासे.. भज सेवायाम्.. 7.. भजति, भजते. बभाज, भेजे. भक्तासि, भक्तासे. भक्ष्यति, भक्ष्यते. अभाक्षीत्, अभक्त. अभक्षाताम्..यज देवपूजा सङ्गतिकरणदानेषु.. 8.. यजति, यजते..

बालमनोरमा

206 तङि तु अभृ स् त इति स्थिते—ह्यस्वादङ्गात्। ह्यस्वान्तादित्यर्थः। सिच इति भाष्यम्। `झलो झली'त्यतो झलीति, `संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते- - इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे– सिचो लोपः स्याज्झलीति। ह्यस्वात्किम् ?। अच्योष्ट। अङ्गात्किम् ?। अलाविष्टाम्। सिचः किम् ?। द्विष्टराम्। द्विष्टमाम्। सुजन्तात्तरप्ततमौ। अभृतेति। `उश्चे'ति सिचः कित्त्वान्न गुणः। `झली'त्युक्तेरभृषाताम् अभृषतेत्यत्र न सिज्लोपः। अनतः परत्वाज्झस्य अदादेशः। अभृथाः अभृषाथाम् अभृढ्वम्। अभृषि अभृष्वहि अभृष्महि। ह्मधातुरनिट्। हरणं चतुर्विधमित्याह– प्रापणमित्यादि। तद्यथा–भारं हरति। प्रापयतीत्यर्थः। अशं हरति। स्वीकरोतीत्यर्थः। परत्वं हरति। चोरयतीत्यर्थः। पापं हरति हरते वा। नाशयतीत्यर्थः। जहार जह्यतुः जह्युः। `एकाचः' इतीण्निषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्ते `अचस्तास्व'दिति तन्निषेधः। ऋदन्तत्वेन भारद्वाजमतेऽपि इण्निषेध एव। तदाह–जहर्थेति। जह्यथुः जह्य। जहार–जहर। इति सिद्धवत्कृत्याह—जह्यिवेति। क्रादिनियमादिट्। जह्यिम। जह्यिषे। क्रादिनियमादिट्। जह्याथे जह्यिढ्वे–जह्यिध्वे। जह्य#ए जह्यिवहे जह्यिमहे। लुडादिषु भृञ इव रूपाणि। धृञ्धातुरनिट्। ह्मञ इव रूपाणि। णीञ्धातुरनिट्। णोपदेशः। नयति नयते। निनाय निन्यतुः निन्युः। क्रादिनियमाल्लिटि इट्। थलि तु `अचस्तास्व' दितीण्निषेधस्य भारद्वाजनियमादिड्विकल्प इत्यभिप्रेत्याह– निनयिथ निनेथेति। निन्यिषे निन्याथे निन्यिढ्वे–निन्यिध्वे। निन्ये निन्यिवहे निन्यिमहे। नेता। नेष्यति नेष्यते। नयतु नयताम्। अनयत् अनयत। नयेत् नयेत। नीयात् नेषीष्ट। अनैषीत् अनेष्ट। अनेष्यत् अनेष्यत। इत्यजन्ता उभयपदिनो गताः। परस्मैपदिन इति। `जि ज्र अभिभवे इत्येत्पर्यन्ता' इति शेषः। धेट् पाने इति। `स्तनन्धयी'त्यादौ ङीबर्थं टित्त्वम्, अवयवे टित्त्वस्यव्यर्थतया समुदायार्थत्वादिति हरदत्तः।

तत्त्वबोधिनी

178 प्रत्ययस्यैव तत्रापीष्टत्वात्सिच एव लोपो भवति। तेनेह न— अस्तं द्विष्टमाम्। केचित्त्विहाऽङ्गग्रहणाऽभावे अयाविष्टाम् अलाविष्टामित्यादावपि अतिप्रसङ्गः स्यादित्याहुः। तदपरे न क्षमन्ते। संनिपातपरिभाषयापि परिहारसंभवादिति। झलीति किम ?। अभृषाताम्। अभृषत। ह्मञ् हरणे। चत्वार इहाऽर्थाः। भारं हरति। प्रापयतीत्यर्थः। अंशं हरति। स्वीकरोतीत्यर्थः। स्वर्णं हरति। चोरयति। पापं हरति। नाशयति। धृञ्। दधार। दध्रतुः। दधर्थ। दध्रे। दध्राते। धर्ता। ध्रियात्। णीञ्। निनयिथेति। भारद्वाजनियमादिङ्विकल्पः।

Satishji's सूत्र-सूचिः

वृत्ति: सिचो लोपो झलि । When following a अङ्गम् ending in a short vowel, the affix सिँच् takes लोपः when a झल् letter follows.

Example continued from 1-2-17

अ दि + स् + त
= अदित 8-2-27, 1-1-72