Table of Contents

<<8-1-9 —- 8-1-11>>

8-1-10 आबाधे च

प्रथमावृत्तिः

TBD.

काशिका

आबाधनमाबाधः, पीडा प्रयोक्तृधर्मः, न अभिधेयधर्मः। तत्र वर्तमानस्य द्वे भवतः, बहुव्रीहिवच्चास्य कार्यं भवति। गतगतः। नष्टनष्टः। पतितपतितः। गतगता। नष्टनष्टा। पतितपतिता। प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवम् प्रयुङ्क्ते प्रयोक्ता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

आबाधे च। आबाधः=पीडा। तदाह–पीडायामिति। गतगत इति। `प्रिया विना काल' इति शेषः। आबाधं दर्शयितुमाह–विरहादिति। स्त्रीवियोगादित्यर्थः। बहुव्रीहिवद्भावादिति। `गत' इत्यस्य द्विर्वचने सति बहुव्रीहिवत्त्वात्समुदायस्य प्रातिपदिकत्वेन सुपोर्लुकि समुदायात्सुबुत्पत्तिरित्यर्थः। गतगतेति। `ग्रिये'ति शेषः। इयमपि स्त्रीविरहात्पीड\उfffद्मानस्यौक्तिः। एकस्या एव गमनकर्त्र्या द्विः कथनात्समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमिति `स्त्रियाः पुंव'दिति पुंवत्त्वम्, बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात्। तदाह–इह पुंवद्भाव इति।

तत्त्वबोधिनी

1595 आबाधे च ष। इहेति। `बहुव्रीहि वद्भावा'दित्यनुषज्यते। तथा च `स्त्रियाः पुंव'दिति वर्तते। न च द्विरुक्तस्य परमुत्तरपदं नेति वाच्यं, `बहुव्रीहि व'दित्यतिदेशबलेनैव उत्तरपदत्वस्यापि लाभात्। ननु बहुव्रीहिवद्भावेनोत्तरपदत्वलाभे सति `नने'त्यत्र `नलोपो नञः' इथि कस्मान्न भवति। उच्यते—`न लोपो नञः'इत्यत्र उत्तरपदे इति [प्र]वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमित्तभावो बाध्यते। यथा मद्रह्यदो भद्रह्यद इति। अत्र रेफस्य `अचो रहाभ्यामि'ति द्वित्वप्रसङ्गे आकरे उक्तं `नेमौ रहौ कार्यिणौ किं तु निमित्तमेतौ द्विर्वचनस्ये'ति। नन्वेवमपि `धूर्धूः' `पन्थाःपन्थाः' इत्यादौ `ऋक्पूरब्धू'रिति समासान्तः स्यादिति चेन्। `समासाच्च तद्विषया'दित्यतः समासादित्यनुवर्तमाने `समासान्ताः'इति पुनः समासग्रहणं हि समासाधिकारविहितो यः समासस्तत्परिग्रहार्थम्। तेनातिदेशिके समासे समासान्तानामप्रवृत्तिरति दिक्।

Satishji's सूत्र-सूचिः

TBD.